अस्मिन् धात्वधिकारे ऽस्मानरूपः प्रत्ययो ऽपवादो वा बाधको भवति स्त्र्यधिकारविहितप्रत्ययं वर्जयित्वा। ण्वुल्तृचौ
३।१।१३३ उत्सर्गौ, इगुपधज्ञाप्रीकिरः कः
३।१।१३५ इत्यपवादः, तद्विषये ण्वुल्तृचौ
३।१।१३३ अपि भवतः। विक्षेपकः, विक्षेप्ता, विक्षिपः।
असरूप इति किम्? कर्मण्यण्
३।२।१ इत्युत्सर्गः, आतो ऽनुपसर्गे कः
३।२।३ इत्यपवादः, सनित्यं बाधको भवति। गोदः। कम्बलदः। न अमुबन्धकृतम् असारूप्यम्।
अस्त्रियाम् इति किम्? स्त्रियां कितन्
३।३।९४ इत्युत्सर्गः, अ प्रत्ययात्
३।३।१०२ इत्यपवदः, स बाधक एव भवति। चिकीर्षा जिहीर्षा।
अस्मिन्धात्वधिकारेऽसरूपोऽपवादप्रत्यय उत्सर्गस्य बाधको वा स्यात् स्त्र्यधिकारोक्तं विना॥
अपवादविषयमुत्सर्गो नाबिनिविशत इत्येष उत्सर्गधर्मः, कृताञ्च केषाञ्चिदुत्सर्गाणामपवादविषये प्रवृत्तिरिष्यते, सा च वचनमन्तरेण न सिद्ध्यतीति तदर्थमिदम्। ननु चारभ्यमाणेऽप्येतस्मिन् नैवायमर्थः सम्पद्यते, तथा हि-- अस्योत्सर्गेण वा सम्बन्धः स्यात्, अपवादेन वा,
उभाभ्यां वा? तत्र यदि पूर्वकल्प आश्रीयेत तदा वाशब्देन विकल्पार्थेनोपस्थापितयोर्भावाभावयोरस्यायमर्थः स्यात्-- उत्सर्गोऽसरूपोऽस्त्रियां पक्षे भवतीति, पक्षे न भवतीति। तथा चापवादस्य स्वस्मिन् विषये नित्याप्राप्तिः स्यात्। न ह्रनेनापवादस्य किञ्चित्कृतम्; तेन सहास्यासम्बन्धात्। न च बाधकेऽपवादेऽविकल्पां प्रवृत्तिमनुभवति सति तत्रोत्सर्गः प्रवर्तितुमुत्सहत इति स्वविषय एव विकल्पः प्रवर्तेत। अथ द्वितीयः, तदायमर्थः स्यात्-- असरूपोऽपवादोऽस्त्रियां विकल्पेन भवतीति। एवमपि नैवोत्सर्गस्यापवादविषये प्रवृत्तिर्लभ्यते। उत्सर्गोऽपवादोऽस्त्रियां विकल्पेन भवतीति। एवमपि नैवोत्सर्गस्यापवादविषये प्रवृत्तिर्लभ्यते। उत्सर्गोऽपवादविषयं परिहति, तदापवादस्य बाधकत्वात्। तच्च बाधकत्वमस्मिन्नपि पक्षे तदवस्थमेव, न ह्रनेन तदपनीतम्,
किं तर्हि? स्वस्मिन् विषये तस्य भावाभावौ प्रतिपादितौ-- पक्षे भवति,पक्षे न भवति। न चान्यद्वचनमस्ति; यतोऽपवादविषयमुत्सर्गोऽव्यास्ते। अपवादस्याभावपक्षे प्रापकवचनमन्तरेणापि उत्सर्गो भविष्यति।
प्रतिबन्धाभावादिति चेत्? सत्यमेतत् कार्यबाधायाम्; शास्त्रबाधायान्तु यत् कार्यस्य विधायकं तदपवादेन बाध्यमानं तद्विषपरीहारेणैव प्रवर्तेत, तस्मिन् प्रवृत्ते पश्चापदवादे विकल्पेन प्रवृत्तिमनुबव्तयपि तद्विषय उत्सर्गप्रवृत्तिर्न सम्भवति, सामान्यशास्त्र्सयातद्विषयत्वात्।
अस्तु कार्यवधापक्ष इति चेत्? न; अयुक्तत्वात्। न ह्रबाधिते विधायके शास्त्रे तत्कार्यबाधा युज्यते। निदानोच्छेदेन हि निदानिन उच्छेदः शक्यते कर्त्तुम्, नान्यथा। न हि प्रदीपेऽनुच्छिन्ने तत्प्रभोच्छिद्यते। तस्मादपवादः शास्त्रमेव बाधते,तस्मिश्च बाधिते सत्यपवादाभावपक्षेऽपि नैवोत्सर्गस्यापवादविषये प्रवृत्तिः स्यात्। अथ तृतीयः पक्षः, तदायमर्थः स्यात्-- उत्सर्गोऽसरूपोऽस्त्रियां वा भवति, अपवादोऽपीति। एवमपि तयोः स्वस्मिन् विषये विकल्पेन प्रवृत्तिः स्यात्, न तूत्सर्गस्यापवादविषये; पूर्वोक्तादेव हेतोः। तस्मात् क्रियमाणेऽप्येतस्मिन् नैवाभिमतोऽर्थः सम्पद्यत इति देशयेत्, तं प्रत्याह-- "असरूपोऽपवादप्रत्ययो वा बाधको भवति" इति। एतेनापवादस्यानेन सम्बन्धः, न तु भावाभावौ विकल्प्येते,
किं तर्हि? पक्षे बाधकत्वमिति दर्शयति। एवञ्च यस्मिन् पक्षेऽपवादो बाधको न भवति, तस्मिन् विषये प्रतिबन्धाभावादुत्सर्गः प्रवत्र्तत इति सिध्यति समावेशः। "स्त्र्यधिकारविहितं प्रत्ययं वर्जत्वा" इति।
कथं पुनः "अस्त्रियाम्" इति वचनादेषोऽर्थो लभ्यते? एवं मन्यते-- "स्त्रीग्रहणमिह स्वर्यते, स्वरितेन चाधिकारावगतिर्भवति; तेन स्त्रयधिकारविहितमाश्रित्य यावुत्सर्गापवादौ विहितौ तद्वि,ये प्रतिषेधो विज्ञायते" इति।
अथैवं कस्मान्न विज्ञायते-- स्त्रियामभिधेयायामसरूपोऽपवादो बाधको वा न भवतीति? एवमशक्यं विज्ञातुम्; एवं हि विज्ञायमाने लव्या लवितव्येति यद्विषये तव्यो न स्यात्। एवं तर्हि कस्मान्न विज्ञायते-- स्तिरयामित्येवं स्त्रीशब्दसंशब्दनेन यः प्रत्ययो विहितः स इह स्त्रीशब्देनोक्तः,
तत्र स्त्रियामित्येवं विहितेऽसरूपोऽपवादो बाधको वा न भवतीति? एवमशक्शं विज्ञातुम्; एवं हि विज्ञायमाने व्यावक्रोशी, व्यावक्रुष्टिरिति णचो विषये क्तिनः प्रवृत्तिर्न स्यात्,; यस्मात् "कर्मव्यतीहारे णच् स्त्रियाम्"
३।३।४३ इति णज्विहितः, स्त्रियां क्तिन्नपि; तस्मात् पूर्वोक्त एवार्थः। यद्येवम्, "क्तल्युट्तुमुन्खलर्थेषु" (पु।प।वृ।
७६) इति परिभाषा न प्राप्नोतिच तेषामस्त्र्यधिकारविहितत्वात्? "नपुंसके भावे क्तः"
३।३।११४, "ल्युट् च"
३।३।११५-- हसितम्, हसनम्, तयोर्विषये "भावे"
३।३।१८ इति घञपि प्राप्नोति। "समानकर्त्तृकेषु तुमुन्"
३।३।१५८ -- इच्छति भोक्तुम्,तस्य विषये "इच्छार्थेषु लिङलोटौ" (३।३।
१५७)अपि प्राप्नुतः? "आतो युच्"
३।३।१२८ --ईषत्पानम्, तस्य विषये "ईषव्()दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्" (३।३।
१२६) इति खलपि प्राप्नोति? वावचनस्य व्यवस्थितविभाषात्वान्न भवतीत्यदोषः। "ण्वुल्तृचावित्युत्सर्गा" इति। सामान्यविहितत्वात्। "इगुपधापीकिरः कः इत्यपवादः" इति। विशेषविहित्वात्।
"कर्मण्यण्"
३।२।१ इत्युत्सर्गः, "आतश्चोपसर्गे"
३।१।१३६ इति कप्रत्ययोऽपवादः। ननु चानुबन्धकृतेनासारूप्येण सोऽप्यसरूप इत्याह-- "नानुबन्धकृतम्" इत्यादि। अत्र "ददातिदधात्योर्विभाषा"
३।१।१३९ इति विभाषाग्रहणं ज्ञापकम्। यदि ह्रनुबन्धकृतमसारूप्यं स्याद्विभाषाग्रहणमनर्थकं स्यात्। अनुबन्धकृतादसारूप्यादेव हि "श्याऽऽद्व्यध"
३।१।१४१ इत्यादिसूत्रेण पक्षे णो भविष्यति॥
वासरूपो [ऽस्त्रियाम्]। अपवादेन नित्यं बाधे प्राप्ते क्वचिदुपसर्गस्यापि प्रवृत्त्यर्थमिदं सूत्रम्। अतएव "अचो यत्" , "ऋहलोण्र्यत्" इत्याद्यपवादविषयेतव्यदादयोऽपि प्रयुज्यन्ते--भव्यम्, भवितव्यम्। कार्यं, कर्तव्यं,करणीयम्।
वाच्यम्, वक्तव्यमित्यादि। परिभाषेति। अधिकारसूत्रमिति। स्वीकृते तु स्त्र्यधिकारेण विच्छेदाद्वासरूपसूत्राऽप्रवृत्त्या "आसित्वा भुङ्क्ते" "आस्यते भोक्तु"मित्यादिरूपाणि न सिध्यन्ति। इह हि भोजनार्थत्वादासनस्य पूर्वकालता गम्यते, क्त्वाप्रत्ययश्च तुमर्थाधिकाराद्भावे भवति, लकारोऽपि तत्रैवेति समानविषयत्वादुभयोर्बाध्यबाधकभावः स्यात्। किंच वर्णात्कार इत्युत्सर्गः, सच "रादिफः" इत्यनेन बाध्येत। न चेष्टापत्तिः। "रकारादीनि नामानि शृण्वतो मम पार्वति" इत्यादिप्रयोगविरोधात्। अमुमेवार्थं मनसि निधाय हरदत्तादिभिः परिभाषेयमित्युक्तम्। एतेन "शकि लिह् चे"ति ज्ञापकाद्वासरूपविधेरनित्यत्वेन स्त्र्यधिकारादुत्तरेषु क्तल्युट्()तुमुन्खलर्थेषु वासरूपविधिर्नास्तीति सिद्धान्तः सङ्गच्छत इति दिक्। "वासरूपे" त्यत्राऽसरूप इति च्छेदः। अन्यथा लाघवेविशेषाऽभावेनाऽसंदेहाय "सरूपो वे"ति ब्राऊयादित्याशयेनाह--असरूपैति। असरूप इति किम्?। "कर्मण्यण्" इत्युसर्गः। "आतोऽनुपसर्गे कः" इत्यपवादः। स तूत्सर्गस्य नित्यं बाधको यथा स्यात्। गोदः। कम्बलदः। न च कृतेऽप्यसरूपग्रहणे अण्कयोरप्यसरूपत्वान्नेष्टसिद्धिरिति वाच्यं, "नाऽनुबन्धकृतमसारूप्य"मिति सिद्धान्तात्। "अस्त्रिया"मित्यत्र स्त्रीशब्दः स्वर्यते। स्वरितेन चाधिकारावगतिरित्याशयेनाह-- स्त्र्यदिकारोक्तं विनेति। तेन "स्त्रियां क्तिन्" इत्युत्सर्गम् अप्रत्यया" दित्यपवादो नित्यं बाधते। चिकीर्षा। जिहीर्षा। नन्वस्त्रियामित्यत्र स्त्रीशब्दस्य स्वरितत्वं प्रतिज्ञाय स्वरितेनाऽधिकारावगतिरित्यादिव्याख्यां विहाय स्त्रियामभिधेयायां वासरूपविधिर्नेति, स्त्रियामित्येवं शब्दमुच्चार्य विहिते वासरूपविधिर्नेति वा व्याख्यायतामितिचेत्। अत्राहुः-- "स्त्रियां वाच्याया"मिति पक्षे लव्या लवितव्येति यतो विषये तव्यो न स्यात्, द्वयोरपि इह स्त्रीवाचकत्वात्। "स्त्रिया"मिति शब्दोच्चारणपक्षे तु व्यावक्रोशी व्यावक्रुष्टिरिति कर्मव्यतिहारे णचो विषये क्तिन् स्यात्। द्वयोरपि स्त्रियामित्युच्चार्य विधानात्। ततश्च "स्त्र्यधिकारोक्तं विने"ति व्याख्यैव ज्यासीति दिक्।