सूत्रम्
अत उत् सार्वधातुके॥ ६।४।११०
काशिका-वृत्तिः
अत उत् सार्वधातुके ६।४।११०
उकारप्रत्ययान्तस्य करोतेः अकारस्य स्थाने उकारः आदेशो भवति सार्वधातुके क्ङिति परतः। कुरुतः। कुर्वन्ति। सार्वधातुकग्रहणं किम्? भूतपूर्वे ऽपि सार्वधातुके यथा स्यात्, कुरु। तपरकरणं लघूपधस्य गुणनिवृत्त्यर्थम्। क्ङिति इत्येव, करोति। करोषि। करोमि।
लघु-सिद्धान्त-कौमुदी
अत उत्सार्वधातुके ५७५, ६।४।११०
उत्प्रत्ययान्तस्य कृञोऽत उत्सार्वधातुके क्ङिति। विदाङ्कुरुतात्। विदाङ्कुरुताम्। विदाङ्कुर्वन्तु। विदाङ्कुरु। विदाङ्करवाणि। अवेत्। अवित्ताम्। अविदुः॥
लघु-सिद्धान्त-कौमुदी
अत उत्सार्वधातुके ६८०, ६।४।११०
उप्रत्ययान्तस्य कृञोऽकारस्य उः स्यात् सार्वधातुके क्ङिति। कुरुतः॥
न्यासः
अत उत्सार्वधातुके। , ६।४।११०
"उकारप्रत्ययान्तस्य" इत्यादि। उकारः प्रत्ययोऽन्तो यस्य स तथोक्तः। उकारप्रत्ययान्तश्च करोतिः सार्वधातुकत्त्वं न व्यभिचरति,
अनेनाभिप्रायेणाह--"सार्वधातुकग्रहणं किम्()" इति? "भूतपूर्वेऽपि" इत्यादि।
असति सार्वधातुकग्रहणे करोतेरुकारप्रत्ययान्तस्य क्ङिति प्रत्यये परत उत्त्वमुच्यमानं यत्र क्ङित्? सार्वधातुकं परभूतं तत्रैव स्यात्()--कुरुतः, कुर्वन्तीत्यादिषु;
कुर्वित्र हेर्लुकि कृते क्ङित्प्रत्ययस्याभावात्? "न लुमताङ्गस्य"
१।१।६२ इति प्रत्ययलक्षणप्रतिषेधात्तु न स्यात्()। तस्माद्भूतपूर्वेऽपि सार्वधातुके यथा स्यादित्येवमर्थं सार्वधातुक्ग्रहण्()।
अथ तपरकरणं किमर्थम्(), यावता यद्यपि भाव्यमान उकारः सवर्णानां ग्राहको भवति,
तथाप्यान्तरतम्यान्मात्रिकस्थ स्थाने मात्रिक एव भविष्यति? इत्यत आह--तपरकरणम्()" इत्यादि। असति हि तपरकरण उकारप्रत्ययमाश्रित्य "सार्वधातुकार्धधातुकयोः"
७।३।८४ इति गुणे कृते रपरत्वे च यदुत्त्वं तस्योकारस्य "पुगन्तलघूपधस्य च"
७।३।८६ इति गुणः स्यात्()।
तस्मात्? तपरकरणं क्रियते--ह्यस्वस्यैव श्रवुणं यथा स्यात्(), लक्षमान्तरेण यो दीर्घः। प्राप्नोति स मा भूदिति॥
बाल-मनोरमा
अत उत्सार्वधातुके २९८, ६।४।११०
अत उत्। उप्रत्ययान्तस्येति। "उतश्च प्रत्यया"दित्यतस्तदनुवृत्तेरिति भावः। अकारस्य उत्त्वे कृते तस्य लघूपधगुणमाशङ्क्य आह---तपरेति। इदं स्थानिवत्सूत्रे भाष्ये स्पष्टम्। विदाङ्कुरुतामिति। विदाङ्कुर्वन्त्वित्यपि ज्ञेयम्। "न भकुर्छुरा"मिति निषेधात् "हलि चे"ति दीर्घो न। हेर्लुगिति। तर्हि सार्वधातुकाऽभावात्कथमुत्त्वमित्यत आह--आभीयत्वेनेति। विदांकुर्विति। विदांकुरुतात् विदांकुरुतम् विदांकुरुत। विदांकरवाणीति। आटः पित्त्वेन ङित्त्वाऽभावादुकारस्य गुण इति भावः। विदांकरवाव विदांकरवाम। लड()आह---अवेदिति। हल्ङ्यादिना सिपो लोपे विशेषमाह---
तत्त्व-बोधिनी
अत उत्सार्वधातुके २५८, ६।४।११०
क्ङिति किम्?। करोति। करोषि। लुकोऽसिद्धत्वादिति। सार्वधातुकग्रहणमुत्तरार्थमेव नात्राऽऽवश्यकम्। "इह भूतपूर्वगत्या सार्वधातुकपरत्वामाश्रीयते" इति वृत्तिमते त्वसिद्धत्ववर्णनस्योपयोगलेशोऽपि नास्तीति ज्ञेयम्।