प्रागपदान्तात् अधिकारात् इतोऽग्रे वक्ष्यमाणानि कार्याणि पदस्य भवन्ति इति अधिकारः वेदितव्यः।
पदस्य इत्ययम् अधिकारः प्रागपदान्ताधिकारात्। यदित ऊर्ध्वम् अनुक्रमिष्यामः पदस्य इत्येवं तद् वेदितव्यम्। वक्ष्यति संयोगान्तस्य लोपः
८।२।२३। पचन्। यजन्।
पदस्य इति किम्? पचन्तौ। यजन्तौ। वक्ष्यमाणवाक्यापेक्षया पदस्य अधिकृतस्य षष्ठ्यर्थव्यवस्था द्रष्टव्याः क्वचित् स्थानषष्ठी, क्वचिदवयवषष्ठी।
"प्रागपदान्ताधिकारात्()" इति। "अपदान्तस्य भूर्धन्यः"
८।३।५५ इत्यतः प्राक्()।
अनन्तरेषु योगेष्वामन्त्रितादेः सुबन्तस्य तिङन्तस्य च यत्? कार्य विधीयते तत्रान्तरेणापि पदाधिकारं पदस्यैव कार्यं लभ्यते, अतस्तानुल्लङ्ध्य यत्र पदाधिकारस्योपयोगस्तमेवोपन्यस्यत। "वक्ष्यति--संयोगान्तस्य लोपः" इति। "षष्ठी स्थानेयोगा" (१।१।
४९) इति नियमात्? "पदस्य" इत्येषा स्थानषष्ठी।
स्थानषष्ठ()आञ्चास्यान्? "उदात्तस्वरतयोर्यणः स्वरितोऽनुदात्तस्य"
८।२।४ इत्यस्यायमर्थो जायते--उदात्तस्वरितयोर्यणः परो योऽनुदात्तस्तदन्तस्य पदस्य स्वरितो भवतीतिः तथा चात्रैव स्यात्()--कुमार्याविति, कुमार्य इत्यत्र न स्यात्()। न ह्रेतदुदात्तस्वरितयोर्यणः परो योऽनुदात्तस्तदन्तं पदम्(),
किं तर्हि? सकारान्तम्। "एकादेश उदात्तेनोदात्तः"
८।२।५ इत्यत्रापि स्थानषष्ठ()आमस्यामयमर्थो जायते--उदात्तानुदात्तयोर्य एकदेशस्तदन्तस्य पदस्योदात्तो भवतीति। तथा चात्रैव स्यात्()--वृक्षाविति, वृक्षा इत्यतर न स्यात्()। न ह्रत्रोदात्तानुदात्तयोर्य एकादेशस्तदन्तं पदम्(),
किं तर्हि? सान्तमिति यश्चोदयेत्(), तं प्रत्याह--"वक्ष्यमाणवाक्यापेक्षया" इत्यादि। हेतावियं तृतीया। वक्ष्यमाणानां वाक्यानां याऽपेक्षा तया हेतुभूतया पदस्याधिकृतस्य षष्ठ()र्थव्यवस्था द्रष्टव्या। व्यवस्था=नियम इत्यर्थः।
वक्ष्यमाणानि हि वाक्यानि कानिचित्? "संयोगान्तस्य लोपः"
८।२।२३ इत्येवमादीनि पदस्येति स्थानवष्ठीमपेक्षन्ते।
कानिचित्? "उदात्तस्वरितयोर्यणः"
८।२।४ इत्येवमादीन्यवयवषष्ठीमिति। अत एव परापेक्षया षष्ठ()र्थे नियमो भवति। अधिकारा हि परार्था भवन्ति।
एवञ्चैषां परार्थता भवति यदि ते परापेक्षानुरोधेनार्थमात्मसात्? कुर्वन्ति। "क्यचित्()" इत्यादिना तामेव षष्ठ()र्थव्यवस्थां दर्शयति।
किं पुनः कारणन्? "षष्ठो "स्थाने योगा" (१।१।
४९) इत्येष नियमोऽत्र न प्रवत्र्तते? एवं मन्यते--सम्बन्धन्ध्यन्तरापेक्षया नियमोऽयम्()। योगो हि सम्बन्धः, स चानेकसम्बन्ध्याधारः। न चेहाधिकारसूत्रे सम्बन्ध्यन्तरं विद्यते, अतो नास्त्येव तस्येहोपस्थानमिति॥
पदस्य। "अपदान्तस्य मूर्धन्यः"इति विरोधिनिर्देशात्प्राक्()पदस्येत्ययमधिकारः। तेन "राजा" राजभ्या"मित्यादौ "नलोपः प्रातिपदिकान्तस्ये"ति नलोपः सिध्यति। न तु "राजानौ"राजान"इत्यत्र। तथा "गोमान्""यवमा"नित्यादौ संयोगान्तलोपो, न तु "गोमान्तौ""यवमन्ता"वित्यादौ। तथा "मो नो धातोः"इति नत्वं "प्रशान्भ्या"मित्यादौ भवति न तु "प्रशमौ"प्रशाम्ित्यत्र। तथा "हरिं वन्दे"इत्यादौ "मोऽनुस्वारः"प्रवर्तते, न तु "गम्यते"इत्यादौ। नच "उञि च पदे"इत्यतः "पदे"इत्यधिकारात्पदे परतो मस्याऽनुसव्रः स्यात्, न तु गम्यत इत्यत्रेति किमिह पदस्येत्यधिकारेणेति वाच्यं, "पुंस्वि"ति रूपाऽसिद्धिप्रसङ्गात्। तस्मात् "मोऽनुस्वारः"इत्यत्र "पदस्ये"त्यनुवर्तनीयमेव। "पदे"इत्यस्योत्तरसूत्रेऽप्युपयोगो नास्तीति "उञिच पदे"इत्यत्राऽवोचाम। इह "पदस्यो#ए"ति संबन्धसामान्ये षष्ठी, सा तूत्तरेषु वाक्येषु यथायोगं सम्बन्धविशेषेऽवतिष्ठते। क्वचित्स्थाने षष्ठी, क्वचिदवयवषष्ठीति। तत्र "संयोगान्तस्य लोपः""मो नो धातोः" "मोऽनुस्वारः"इत्यादौ पदस्येति स्थानषष्ठी। अवयवषष्ठ()आन्तूक्ताऽतिप्रसङ्गात्। "मादुपधाया"इत्यादौ त्ववयवषष्ठी। अन्यथा "वृक्ष्वा"निप्यत्रैव मतुपोमस्य वत्वं स्यान्न तु "वृक्षवन्तौ""वृक्षवन्त"इत्यत्र। एतच्चानुपपादयिष्यते। यद्यपि "षष्ठी स्थानेयोगे"ति परिभाषया "पदस्ये"त्()यत्र स्थानषष्ठ()एव लभ्यते, न त्ववयवषष्ठी, तथापि सनलोपस,#ऊत्रे अन्तस्येति ग्रहणाज्ज्ञापकादवयवषष्ठ()पिलभ्यते। यदि तु "पदस्ये "ति स्थानषष्ठ()एव स्यात्तर्हि नान्तस्य पदस्य लोपो भवन्नलोऽन्त्यस्य स्यादिति अन्तग्रहणमनर्थकं स्यात्। अवयवषष्ठ()ङ्गीकारे चु "अन्तस्ये"ति ग्रहणं सार्थकम्। तद्यथा,--नलोपसूत्रे "प्रातिपदिकान्तस्ये"त्यसमासनिर्देशः। प्रातिपदिकसंज्ञकस्य पदस्य अन्तावयवो यो नकारस्तस्य लोप इति सूत्रार्थ इति। नन्वेमन्तस्येतिग्रहणमवयवषष्ठीत्वज्ञापनार्थमिति स्वीकृतत्लात्पदस्येत्यत्र कथं नाम स्थानषष्ठीलाभः, संबन्धविशेषस्()य निर्धारितत्वेन स्ाथनषष्ठीपरिभाषाया अनुपस्थितेः। अत्राहुः प्रयोगमूलत्वाद्द्यकरणस्मृतेर्लक्ष्यानुरोधेन स्थानषष्ठ()पि स्वीक्रियते, ज्ञापकसिद्धा अबयवषष्ठी न सर्वत्र स्वीक्रियते इति नलोपसूत्रे मनोरमायान्तग्रहणं त्युक्तं शक्यमित्युक्तम्। भाष्यादौ तु "पदस्ये"त्यधिकृतस्याऽवयवषष्ठ()न्तत्वमप्यभ्युपगम्यते न तु स्थानषष्ठ()न्तत्वमेवेति ज्ञापनार्थंमन्तग्रहणम्। तेन "वृक्षवन्तौ""वृक्षवन्त"इत्यत्र "मादुपधायाः"इति वत्वं सिध्यति, पदावयवस्य मतुपः सत्त्वात्।अन्यथा "पदस्ये"त्यस्य विसेष्यत्वे मतुपातदन्ताविधौ "मत्वन्तं यत्पदं तदवयवस्य मतुपो मादुपधायाः परस्य मस्य वत्वं भवती"त्यर्थः स्यात्। तथा च "वृक्षवा"नित्यत्रैव स्यात्, नतु "वृक्षवन्तौ" "वृक्षवन्त"इत्यत्रे"ति स्थितम्।