गश्च कश्च ङश्च क्क्ङः, क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् क्क्ङिति, द्वन्द्वगर्भो बहुव्रीहिः।
क्क्ङिति इति निमित्तसप्तमी। गित् कित् ङित् निमित्तके इकः स्थाने ये गुणवृद्धी प्राप्नुतः, ते न भवतः।
गित् - जिष्णुः भूष्णुः। कित् - चितः चितवान्, स्तुतः स्तुतवान्, कृतः कृतवान्। मृष्टः, मृष्टवान्। ङित् - चिनुतः सुनुतः, चिन्वन्ति सुन्वन्ति, मृजन्ति।
गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः। भूयात्। भूयास्ताम्। भूयासुः। भूयाः। भूयास्तम्। भूयास्त। भूयासम्। भूयास्व। भूयास्म।
क्ङितीति यदीयं परसप्तमी स्यादनन्तरस्यैवेकः प्रतिषेधः स्यात्, "चितः,
चितवात्" इत्यादौ व्यवहितस्य "भिन्नो भिन्नवात्" इत्यादौ न स्यात्, "तस्मिन्निति निर्दिष्टे स्पूर्वस्य"
१।१।६५ इत्यत्र निर्दिष्टग्रहणस्यानन्तरर्यार्थत्वात्। निमित्तसप्तम्यां त्वस्यां सर्वत्र भवितव्यम्, व्यवहितयोरपि निमित्तनिमित्तिभावसद्भावा-
दिति मन्यमान आह- "निमित्तसप्तम्येषा" इति। निमित्तात् सप्तमी निमित्तसप्तमी। "पञ्चमी भयेन"
२।१।३६ इति "पञ्चमी" इति योगविभागात् समासः। सा पुनः सप्तमी "यस्य च
भावेन भावलक्षणम्"
२।३।३७ इत्यनेन वेदितव्या। क्ङितो हि निमित्तभावेन गुणवृद्धयोःप्राप्तिलक्षणो भावो लक्ष्यते।
अथ निमित्तसप्तम्यामप्यस्यां कस्मादेव व्यवहितस् प्रतिषेधो लभ्यते? तत्र तस्मिन्
१।१।६५ इत्यादिकायाः परिभाषाया अनुपस्थानात्।
"क्ङिति च"
१।१।७२ इत्यादरावप्यस्या इक्()परिभाषाया उपस्थानात् "शालीयः, मालीयः"
इत्यत्र वृद्धरसञ्ज्ञा न स्यात। यता चेयमिक्()परिभाषा विध्यङ्गशेषभूतत्वाद्विधावेवोपतिष्ठते, तथासावप्यानन्तर्यपरिभाषा। न चेह गुणवृद्धी विधीयेते,
किं तर्हि? विहिते अप्यन्यत्र क्ङितीत्यनेन विशिष्येते। तस्मान्नात्र तस्याः परिभाषाया उपस्थानमित्यन-न्तरस्यापि प्रतिषेधः सिध्यति। "क्ङिन्निमित्ते ये गुणवृद्धी" इति। क्ङिन्निमित्तं ययोस्ते तथोक्ते। ते पुनर्ये क्ङिन्निमित्ते सति प्राप्नुतस्ते विज्ञेये। एतेन गुण-
वृद्धीविशेषणं क्ङिद्()ग्रहणमिति दर्शयति।
ननु च विधीयमानतया प्राधान्यात् प्रतिषेध-
स्यैवैतद्विशेषणं युक्तम्? नैतदस्ति; यत्र हि गुणः कृतात्मसंस्कारः प्रधानोपकाराय महते प्रभवति, तत्र प्रधानस्यैव भूयांसमुपकारं कर्तुमात्मनः संस्कारमनुभूय प्रधानेन सम्बन्धमनुभवति। यथोक्तम्-
"गुणः कृतात्मसंस्कारः प्रतिपद्यते।
प्रधानस्योपकारे हि तथा भयसि वर्तते॥ इति।
इह तु गुणवृद्धयोः क्ङिद्दग्रहणेन विशेषितयोर्महान प्रधानस्य प्रतिषेधस्योपकारो भवति, व्यवहितस्यापि तत्सिद्धेः। "भिन्नः" इति। "भिदिर् विदारणे" (धा।पा। १४३९),क्तः, "रदाभ्यां निष्ठातोनः"
८।२।४२ इति नत्वम्। "मृष्टः" इति। मृजेः "व्रश्च"
८।२।३६ इत्यादिना जकारस्य षत्वम्, "ष्टुना ष्टुः"
८।४।४० इति ष्टुत्वम्। चिनुत
इत्यादौ तु "सार्वधातुकमपित्"
१।२।४ इति क्ङित्त्वम्। "चिन्वन्ति"इति। "हुश्नुवोः
सार्वधातुके"
६।४।८७ इति यणादेशः। अत्र "चितः, चितवान्, स्तुतः, स्तुतवान्, चिनतः, चिन्वन्ति" इत्येषूदाहरणेषु यतायोगं सार्वधातुकार्धधातुकलक्षणस्य गुणस्य प्रतिषेधः, "भिन्नः भिन्नवान्" इति लघूपधलक्षणस्य, परिशिष्टेषु "मृजेर्वृद्धिः"
७।२।११४
इति वृद्धेः। "ग्लाजिस्थश्च क्स्नुः" इति। क्स्नुप्रत्ययोऽयं यदि कित् स्यात्,
स्थास्नुरित्यत्र घुमास्थादिसूत्रेण
६।४।६६ तिष्ठतेरीत्त्वं स्यात्। अतस्तत्परिहाराय क्स्नोर्गित्त्वं प्रतिज्ञायते। तथा हि तत्र वक्ष्यति-"गिच्चायं प्रत्ययो न
कित्। तेन स्थ ईकारो न भवति"(का।२४१) इति। गित्वे च सति "भूष्णुः, जिष्णुः" इत्यत्र"क्ङितिच"
१।१।५ इति प्रतिषेध उच्यमानो न प्राप्नोति। अत एतद्दोषपरिहारायाह- "गकारोऽप्यत्र" इत्यादि (का२४१)।चत्त्र्वभूतः चर्त्वं प्राप्त इत्यर्थः। चर्त्वं तु "
खरि च"
८।४।५४ इति। यदि हि क्स्नोर्गित्त्वमिष्यते, भूष्णुरित्यत्र "श्रयुकः किति"(७।२।
११) इति किति प्रतिषेध उच्यमानो न स्यात्? नैष दोषः; तत्रापि चत्त्र्वभूतो
गकारो निर्दिश्यते। तथा हि -"ग्लाजिस्थश्च क्स्नुः"
३।२।१३९ इत्यत्र जयादित्यवृ-
त्तौ ग्रन्थः- ""क्ङिति च"
१।१।५ इत्यत्र गकारश्चत्त्र्वभूतो निर्दिश्यते, तेन गुणो न भवति। "श्रयुकः किति"
७।२।११ इत्यत्रापि गकारो निर्दिश्यते, तेन भुव इड् न भवति"(का। २४१) इति। "श्रयुकः किति"
७।२।११ इत्यत्रापि जयादित्यवृत्तौ ग्रन्थः- "गकारोऽप्यत्र चत्त्र्वभूतो निर्दिश्यते भूष्णुरित्यत्र यथा स्यात्" इति। वामनस्य
त्वेतत् सर्वमनभिमतम्। तथा हि तस्यैव सूत्रस्य तद्विरचितायां वृत्तौ ग्रन्थः- केचिदत्र द्विककरानिर्देशेन गकारप्रश्लेषं वर्णयन्ति भूष्णुरित्येवं यथा स्यात्।
सौत्रत्वाच्च निर्देशस्य "श्रयुकः किति"
७।२।११ इत्यत्र चत्र्वस्यासिद्धत्वमना-
श्रित्य रोरुत्वं न कृतम्, विसर्जनीयश्च कृतः इति। "ग्लाजिस्थश्च क्स्नुः"
३।२।१३९ इत्यत्र स्था आ इत्यकारप्रश्लेषेण स्थास्नोः सिद्धत्वान्न किञ्चदेतत्"(का ८०२)
इति। स एवं मन्यते- यदि क्स्नुप्रत्यययस्य कित्त्वे सति तिष्ठतेरीत्त्वं
प्राप्नुयात् तथा तत्परिहारार्थं गित्त्वं युज्यते प्रतिज्ञातुम। गित्त्वे च सति
जिष्णुः, भूष्णुः" इत्यत्र यथायोगमिड्()गुणयोर्निरासाय "क्ङिति च"
१।१।५ इत्यत्र
"श्रयुकः किति"
७।२।११ इत्यत्र च गकारश्चत्र्वभूतो निर्दिश्यमानः शोभेत। न च
क्स्नुप्रत्ययो गित्,
किं तर्हि? किदेव। तत्किमिड्()गुण्प्रतिषेधार्थेन चत्त्र्वभूतगकारस्य निर्देशेन !न च क्स्नोः कित्त्वेसति तिष्ठतेरात्वं प्राप्नोति। तस्मात् "
ग्लाजिस्थशाच क्स्नुः"
३।२।१३९ इत्याकारप्रश्लेषः कृतः, क्स्नुप्रत्ययान्तस्य
तिष्ठतेराकार एव यथा स्यात्, यदन्यत् प्राप्नोति तन्मा भूत् इत्येवमर्थः। ततश्च
तेनैव सिद्धत्वात् स्थास्नुशब्दस्याकिञ्चित्करमिह गकारप्रश्लेषवर्णनमिति। "कामयते" इति। "कमेर्णिङ"
३।१।३०। अत्र "अत उपधायाः"
७।२।११६ इति वृद्धेः प्रतिषेधो न भवति। "लैगवायनः" इति। लिगुशब्दात् "नडादिभ्यःफक्"
४।१।९९ इति फकि कृते "ओर्गुणः"
६।४।१४६ इति गुणस्य प्रतिषेधो न भवति। ननु चोकारैगेव,
तदयुक्तमिदं प्रत्युदाहरणम्? नैतदस्ति; अत्र हि चकारः क्रियते "इकः" इत्यनुकर्षणार्थः। तत्र चकारेणानुकर्षणसा-
मथ्र्यादिक इत्येतदर्थपदार्थतामुत्सृज्य स्वरूपपदार्थतामनुभवति। अन्यथा हि यदि
चकारेणाध्यनुकृष्यमाणमर्थपदार्थकमेव स्यात् तदनुकर्षणार्थं चकारकरणमनर्थकं स्यात्, अर्थपदार्थस्य स्वरितत्वादेवानुवृत्तिसिद्धेः। स्वरूपपदार्थके च तस्()मिन्निह सन्नि-
हिते सत्ययमर्थो भवति, "इकग इत्येवं ये गुणवृद्धी विधीयेते, इक इतीमं शब्दमुचार्य
ये गुणवृद्धी विधीयेते, ते क्ङिन्निमित्ते न भवतः" इति। न च "लैगवायनः" इत्यत्र
इकः" इतीमं शब्दमुचार्य गुणो विधीयते, इक्परिभाषायास्तत्रानुपस्थानात्। अनुपस्थानं तु साक्षादुकारस्य स्थानिनो निर्देशात्। यत्र हि साक्षात् स्थानी न निर्दिश्यते
तत्रासावुपतिष्ठते। ननु यदि स्वरूपपदार्थस्येक इत्यस्येह सन्निधानम्, स्थानी न
निर्दिष्टः स्यात्,
ततश्च न ज्ञायते कस्य गुणवृद्धी प्रतिषिध्येते इति? नैष दोषः। सामथ्र्यादिक एव गुणवृद्धयोः प्रतिषेधोऽयं गम्यते। न ह्रन्यस्येक इतीमं शब्दुमु-
च्चार्य गुणवृद्धी विधीयेते। अथ वा " यद्यपीक्परिभाषा विध्यङ्गशेषभूता, तथापीहास-
त्यपि गुणवृद्धयोर्विधाने चकारेणानुकृशष्य सन्निधाप्यते। एतदेव हि चकारकरणस्य प्रयोजनं यदिदमिक्परिभाषायाः सन्निधापनम्। ततश्च तस्या उपस्थाने सति यत्रासौ व्याप्रियते तत्रैवायं प्रतिषेधो विज्ञायते।
क्व चासौ व्याप्रियते? यत्र स्थानी साक्षान्न्
निर्दिश्यते। इह तु निर्दिश्यते स्थानी, तस्मादिक्परिभाषाया व्यापाराभावाद्भवति
प्रत्युदाहरण्। "मृजेः" इत्यादि।
कथं पुनरिष्यमाणापि सा लभ्यते? यथा लभ्यते तथा
श्रूयताम। "अचो ञ्णिति" श्
७।२।११५ इत्यत्र "मृजेर्वृद्धिः"
७।२।११४ इति वर्तते, "जराया जरसन्यतरस्याम्"
७।२।१०१ इत्यतोऽन्यतरस्यां ग्रहणं च मण्डूकप्लुतिन्यायेनानुवत्र्तते, सा च व्यवस्थितविभाषा। "अचः" इति योगविभागः क्रियते। मृजेरजादौ संक्रमे विभाषा वृद्धिर्भवति, अन्यत्र न भवत्येव।
"लघूपधगुणस्याप्यत्र प्रतिषेधः" इति। एतेन संक्रमत्वं दर्शयति। अन्ये तु
उत्तरसूत्रे "कणिता ()आः" रणिता ()आः" इत्यनन्तरमनेन ग्रन्थेन भवितव्यम्िह तु दुर्विन्यस्तकाकुपदजनितभ्रान्तिभिः कुलेखकैर्लिखितमिति वर्णयन्ति। अथ वा- निमित्तसप्त-
म्या एवेदं फलं दर्शितमिति मन्तव्यम्। "अचिनवम्, असनुवम्" इत्यत्र लङो ङित्वात्
तदादेशस्यापि मिपो ङित्त्वम्। स्थानिवद्भावेन मिपो ङित्त्वात् तदादेशस्याप्यमो
ङित्त्वं पूर्ववत्, ततश्च तदाश्रयो विकरणस्य गुणप्रतिषेधः प्राप्नोति। कस्मान्न
भवतीत्याह- "अचिनवम्" इत्यादि। आदिशब्देन "अकरवम्" इत्यादिनां परिग्रहः। "लकारस्य" इति। लकारादेशोऽपि पारम्पर्येण लकारपूर्वकत्वादुपचारेण लकार इत्युक्तः। सत्यपीत्य-
भ्युपगमे "हलः श्नः शानज्झौ"
३।२।८३ इति शानजादेशस्य शित्करणाल्लिङ्गान्नावश्यमनुबन्धकार्येषु स्थानिवद्भावो भवतीत्यध्यवसितोऽयमर्थः। अतो ङित्त्ववचम्" इत्यादि।
यदि ङिति यत्कार्यं विधीयते तल्लकारे ङिति स्यात्, ततो लिङ एव ङित्त्वेन चिनुयादि-
त्यादौ गुणप्रतिषेधस्य सिद्धत्वात् "यासुट् परस्मैपदेषूदात्तो ङिच्च"
३।४।१०३ इति यत् तस्य यासुटो ङ्द्विचनं तन्न कुर्यात्, कृतञ्च; ततोऽवसीयते- "ङिति यत् कार्यं तल्लकारे इति न भवति" इति।