प्रथमावृत्तिः
सूत्रम्॥
नडादिभ्यः फक्॥ ४।१।९९
पदच्छेदः॥
नडादिभ्यः ५।१ फक् १।१ १०३ गोत्रे ? तस्यापत्यम् ? तद्धिताः ? ङ्याप्प्रातिपदिकात् ? प्रत्ययः ? परश्च ?
समासः॥
नड आदिः येषां ते नडादयः तेभ्यः ॰ बहुव्रीहिः
अर्थः॥
गोत्रापत्ये वाच्ये षष्ठीसमर्थेभ्यः नडादिभ्यः प्रातिपदिकेभ्यः फक् प्रत्ययः भवति
उदाहरणम्॥
नडस्य गोत्रापत्यं नाडायनः चारायणः
काशिका-वृत्तिः
नडादिभ्यः फक् ४।१।९९
नडित्येवम् आदिभ्यः प्रातिपदिकेभ्यः गोत्रापत्ये फक् प्रत्ययो भवति। नाडायनः। चारायणः। गोत्रे इत्येव, नाडिः। शलङ्कु शलङ्कं च इत्यत्र पठ्यते। शालङ्कायनः। पैलादिषु शालङ्किशब्दः पठ्यते। शालङ्किः पिता। शालङ्किः पुत्रः। तत् कथम्? गोत्रविशेषे कौशिके फकं स्मरन्ति, इञेव अन्यत्र शालङ्किः इति। अथवा पैलादिपाठ एव ज्ञापकः इञो भावस्य। नड। चर। बक। मुञ्ज। इतिक। इतिश। उपक। लमक। शलङ्कु शलङ्कं च। सप्तल। वाजप्य। तिक। अग्निशर्मन् वृशगणे। प्राण। नर। सायक। दास। मित्र। द्वीप। पिङ्गर। पिङ्गल। किङ्कर। किङ्कल। कातर। कातल। काश्य। काश्यप। काव्य। अज। अमुष्य। कृष्णरणौ ब्राह्मणवासिष्ठयोः। अमित्र। लिगु। चित्र। कुमार। क्रोष्टु क्रोष्टं च। लोह। दुर्ग। स्तम्भ। शिंशिपा। अग्र। तृण। शकट। सुमनस्। सुमत। मिमत। ऋक्। जत्। युगन्धर। हंसक। दण्डिन्। हस्तिन्। पञ्चाल। चमसिन्। सुकृत्य। स्थिरक। ब्राह्मण। चटक। बदर। अश्वक। खरप। कामुक। व्रह्मदत्त। उदुम्बर। शोण। अलोह। दण्ड।
न्यासः
नडादिभ्यः फक्। , ४।१।९९
नडादिषु "शलङ्कु शलङ्कञ्च" इति पठ()ते। तस्यायमर्थः- शलङ्कुशब्दः प्रत्ययमुत्पादयति शलङ्कभावं चापद्यते, तेन शालङ्कायन इति भवति। "पैलादिषु "इति। पैलादिषु शालङ्किशब्द इञन्तः पठ()ते, तत उत्पन्नस्य युवप्रत्ययस्य लुग्यथा स्यात्-- "शालङ्कि पिता, शालङ्किः पुत्रः" इति। तत्र हि "ण्यक्षत्त्रियार्षञितः"
२।४।५८ इत्यादेः सूत्रात् "यूनि लुक्" इति चानुवत्र्तते, तस्य शालङ्गिशब्दस्य तत्र पाठो न युज्यते-- नडादिषु पाठात् फका भवितव्यमिति कृत्वा, तत् कथमिञन्तस्तत्र पठ()त इति चोद्यम्। तस्य परिहारमाह-- "गोत्रविशेषे" इत्यादि। कौशिकं यद्गोत्रं तत्रैव शलङ्कुशब्दादाचार्यः फकं स्मरन्ति, ततोऽन्यत्र त्विञेव भवतीत्यदोषः। स त्विञ् बाह्वादेराकृतिगणत्वाल्लभ्यते। अभ्युपेत्यापि गोत्रमात्रे फको विधानम्। परिहारान्तरमाह-- "अथ वा" इत्यादि। इञो भाव उपलक्षणम्। शलङ्कभावस्यापि हि पैलादिपाठ एव ज्ञापकम्। पूर्वत्रापि परिहारे तस्य एव ज्ञापकं वेदितव्यम्। "अग्निशर्मन् वृषगणे" इति। अग्निशर्मञ्शब्दाद्वृषगणे गोत्रे फग्भवति-- आग्निशर्मायणः। अन्यत्राणेव-- आग्निशर्मः। "अमुष्य" इति पठ()ते। ततर् निपातनाद्विभक्तेरलुक्-- आमुष्यायण इति। "कृष्णरणौ ब्राआहृणवाशिष्ठयोः" इति। कृष्णरणशब्दौ यथाक्रमं ब्राआहृणे वाशिष्ठे चाभिधेये फकमुत्पादयतः। काष्र्णायनो ब्राआहृणः। राणायणो वशिष्ठः। वशिष्ठगोत्र इत्यर्थः। अन्यत्रेञेव भवति-- का()ष्णः, राणिरिति। "क्रोष्टु क्रोष्टञ्च" इति पठ()ते। क्रोष्टुशब्दः फकमुत्पादयति, क्रोष्टञ्चापद्यते -- क्रौष्टायनः॥
बाल-मनोरमा
नडादिभ्यः फक् १०८५, ४।१।९९
नडादिभ्यः फक्। इञोऽपवादः। अनन्तरो नाडिरिति। अनन्तरापत्यस्य गोत्रत्वाऽभावात्फगभावे इञेवेत्यर्थः।