अभेरुत्तरं मुखम् अन्तोदात्तं भवति। अभिमुखः। बहुव्रीहिरयम् प्रादिसमासो वा। अव्ययीभावे तु समासान्तोदात्तत्वेन एव सिद्धम्। उपसर्गात् स्वाङ्गम्
६।२।१७६ इति सिद्धे वचनम् अबहुव्रीह्यर्थम् अध्रुवार्थम् अस्वाङ्गार्थं च। अभिमुखा शाला।
"अभिमुखः" इति। मुखशब्द उक्तस्वरः। अभिशब्दोऽन्तोदात्तः। "बहुव्रीहिरयम्()"
इत्यादि। यदा बहुव्रीहिस्तदा--अभिगतं मुखमनेनेति विग्रहः। यदा तु प्रादिसमासस्तदा अभिगतो मुखम्(), अभिगतो वा मुखेनेति।
कस्मादयमव्ययीभावो न भवति? इत्याह--"अव्ययीबावे तु" इत्यादि।
"वचनमिदमबहुव्रीह्रर्थम्()" इति। यदा मुखं ध्रुवं भवति तदाऽध्रुवार्थम्(), अस्वाङ्गार्थ चेति। अध्रुवमस्वाङ्गञ्च मुखं बहुव्रीहावपि यदा भवति। "अभिमुखा शाला" इति। अभिगतं मुखं यस्या इति बहुव्रीहिः।
अत्र "उपसर्गात्? स्वाङ्गम्()"
६।२।१७६ इति न सिध्यति; मुखशब्दस्यास्वाङ्गवाचित्वात्()॥