पूर्वम्: ६।२।१८१
अनन्तरम्: ६।२।१८३
 
सूत्रम्
प्रादस्वाङ्गं संज्ञायाम्॥ ६।२।१८२
काशिका-वृत्तिः
प्रादस्वङ्गं संज्ञायाम् ६।२।१८३

प्रादुत्तरपदम् अस्वाङ्गवाचि संज्ञायां विषये ऽन्तोदात्तं भवति। प्रकोष्ठम्। प्रगृहम्। प्रद्वारम्। अस्वङ्गम् इति किम्? प्रहस्तम्। प्रपदम्। संज्ञायाम् इति किम्? प्रपीठम्।
न्यासः
प्रादस्वाङ्गं संज्ञायाम्?। , ६।२।१८२

"प्रकोष्ठम्()" इति। "उषिकुषिगार्तिभ्यस्थन्()" (द।उ।६।२९) इति कुषेस्थन्()। तेन क्रोष्ठशब्द आद्युदात्तः। "प्रगृहम्()" इति। "गेहि कः" ३।१।१४४ इति कप्रत्ययः। तेन गृहमन्तोदात्तम्()। "प्रद्वारम्? इति। "नब्विषयस्यानिसन्तस्य" (फि।सू।२।२६) इति द्वारमाद्युदात्तम्()। "प्रपदम्()" इति। पदं द्वारवदेवाद्यटुदात्तम्()। "प्रहस्तम्()" इति। "हसिमृग्रिण्वमिदमि" (द।उ।६।७) इत्यादिना हसेस्तन्()। तेन हस्तशब्द आद्युदात्तः॥