पूर्वम्: ६।२।१७४
अनन्तरम्: ६।२।१७६
 
सूत्रम्
न गुणादयोऽवयवाः॥ ६।२।१७५
काशिका-वृत्तिः
न गुणादयो ऽवयवाः ६।२।१७६

बुणादयो ऽवयववाचिनो बहोरुत्तरे बहुव्रीहौ नान्तोदात्ताः भवन्ति बहुगुणा रज्जुः। बह्वक्षरं पदम्। बहुच्छन्दो मानम्। बहुसूक्तः। बह्वध्यायः। गुणादिराकृतिगणो द्रष्टव्यः। अवयवाः इति किम्? बहुगुणो ब्राह्मणः। अध्ययनश्रुतसदाचारदयो ऽत्र गुणाः।
न्यासः
न गुणादयोऽवयवाः। , ६।२।१७५

पूर्वोणातिप्रसक्तोऽतिदेश इति गुणादिना प्रतिषिध्यते--"बहुगुणा रज्जुः" इति। बह्ववयवा इत्यर्थः। "गुण आमन्त्रणे" (धा।पा।१८९४) चुरादिः, तस्माद्घञ्()। तेन गुणशब्द आद्युदात्तः। "अशेः सरः" (द।उ।८।५०) ["सरन्()"--द।उ।(पं।उ।-३।७०)] इत्यनेनाक्षरशब्दोऽन्तोदात्तः। छन्दो मीयतेऽनेनेति च्छन्दोमानम्()। कृत्स्वरेण छन्दोमाने मानशब्द आद्युदात्तः; तस्य घञन्तत्वात्()। शोभनमुक्तं सूक्तम्()। प्रादिसमासः। थाथादिस्वरेण ६।२।१४३ सूक्तशब्दोऽन्तोदात्तः। अधीयतेऽस्मादित्यध्यायः। "इङश्च" ३।३।२१ इति घञ्()। सूक्तवदध्यायोऽन्तोदात्तः॥