पूर्वम्: ६।२।१८०
अनन्तरम्: ६।२।१८२
 
सूत्रम्
परेरभितोभाविमण्डलम्॥ ६।२।१८१
काशिका-वृत्तिः
परेरभितोभावि मण्डलम् ६।२।१८२

परेरुत्तरम् अभितोभविवचनं मण्डलं च अन्तोदात्तं भवति। परिकूलम्। परितीरम्। परिमण्डलम्। बहुव्रीहिरयं प्रादिसमासो ऽव्ययीभावो वा। अव्ययीभावपक्षे ऽपि हि परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु ६।२।३३ इति पूर्वपदप्रकृतिस्वरत्वं प्राप्तम् अनेन बाध्यते। अभितः इत्युभयतः। अभितो भावो ऽस्य अस्ति इति तदभितोभावि। यच् च एवं स्वभावं कूलादि तदभितोभाविग्रहणेन गृह्यते।
न्यासः
परेरभितोभावि मण्जलम्?। , ६।२।१८१

"परिकूलम्(), परितीरम्()" इति। कूलतीरशब्दावुक्तस्वरौ "कूलतीरतूलमूल" ६।२।१२० इत्यादौ सूत्रे। "परिमण्डलम्()" इति। परितः=सर्वतो मणाडलं परिमण्डलम्()। "मणि भूषायाम्()" (धा।पा।३२१)--अस्मात्? "कलस्तृपश्च" (द।उ।८।१०७) इति बाहुलकात्? कलप्रत्ययः, "वृषादिभ्यश्चित्()" (द।उ।८।१०९) इति च। तेन मण्डलमन्तोदात्तम्()। "बहुव्रीहिरयम्()" इत्यादि। यदा बहुव्रीहिस्तदा--परितः कूलमस्य, परितस्तीरमस्येति तेन मण्डलमन्तोदात्तम्()। "बहुव्रीहिरयम्()" इत्यादि। यदा बहुव्रीहिस्तदा--परितः कूलमस्य, परितस्तीरमस्येति विग्रहः। यदा तु प्रादिसमासस्तदा परिगतं कूलम्(), परिगतं तीरमिति। यदा पुनरव्ययीभावस्तदा--परि कूलात्(), परि तीरादिति। अव्ययीभावस्तु "अपपरिबहिरञ्चवः पञ्चम्या" २।१।११ इत्यनेन। परि कूलादिति पञ्चमी "पञ्चम्यपाङपरिभिः" २।३।१० इति कर्मप्रवचनीययोगे। कर्मप्रवचनीयत्वं तु परेः "अपपरी वर्जने" १।४।८७ इति। युक्तं यद्बहुव्रीहौ तत्पुरुषे चेदमन्तोदात्तत्वं विधीयते; तत्र हि समासान्तोदात्तत्वस्यापवादः, पूर्वपदप्रकृतिस्वरः प्राप्नोति। अव्ययीभावे त्वयुक्तम्(); तत्र हि समासान्तोदात्तत्वेनैव सिद्धम्()। न हि तस्यापवादः पूर्वपदप्रकृतिस्वरः केनचित्? प्राप्त इत्यत आह--"अव्ययीभावपक्षेऽपि हि" इत्यादि। यदाप्यव्ययीभावपक्षः, तदापि "परिप्रत्युपपा" ६।२।३३ इत्यादिना पूर्वपदप्रकृतिस्वरः प्राप्तोनेनान्तोदात्तत्वविधानेन बाध्यत इति किमत्रायुक्तम्()। "यच्चैवंस्वभावम्()" इत्यादि। अभितो भवनं यस्य स्वभावस्तदभितोभाविग्रहणेन गृह्रते, न तु तद्विपरीतस्वभावम्()॥