पूर्वम्: ६।२।११८
अनन्तरम्: ६।२।१२०
 
सूत्रम्
वीरवीर्यौ च॥ ६।२।११९
काशिका-वृत्तिः
वीरवीर्यौ च ६।२।१२०

वीर वीर्य इत्येतौ च शब्दौ शोरुत्तरौ बहुव्रीहौ समासे छन्दसि विषये आद्युदात्तौ भवतः। सुवीरस्ते। सुवीर्यस्य पतयः स्यम। वीर्यम् इति यत्प्रत्ययान्तं तत्र यतो ऽनावः ६।१।११९ इति आद्युदात्तत्वं न भवति इत्येतदेव वीर्यग्रहणं ज्ञापकम्। तत्र हि सति पूर्वेण एव सिद्धं स्यात्।
न्यासः
वीरवीर्यौ च। , ६।२।११९

"स्फायितञ्चि" (द।उ।८।३१) इत्यादिनाऽजे रकिप्रत्यये वीरशब्दो व्युत्पाद्यते। तेनान्तोदात्तः। अथ वा--"वीर विक्रान्तौ" (धा।पा।१९०३) इत्यस्य पचाद्यचि व्युत्पादितत्वात्()। "वीर्यमिति यत्प्रत्ययान्तम्()" इति। वीरे साधुः, "तत्र साधुः" ४।४।९८ इति प्राग्घितीयो यत्()। अथ वा--वीर इत्यसमाच्चौरादिकादस्मादेव निपातनात् "अचो यत्()" ३।१।९७, तेन वीर्यमिति यत्प्रत्ययान्तम्()। एवं सति "यतोऽनावः" (६।१।२१३) इत्याद्युदात्तत्वं प्राप्नोति? इत्यत आह--"तत्र" इत्यादि। कथं पुनर्वीर्यग्रहणं ज्ञापकम्()? इत्याह--"तत्र हि" इत्यादि। यद्याद्युदात्तं स्यात्? तदा "आद्युदात्तं द्व्यच्छन्दसि" ६।२।११८ इत्यनेनैव सिद्धं स्यात्()। ततश्चेह वीर्यग्रहणं न कुर्यात्(), कृतञ्च; तस्मात्? तदेव ज्ञापयति--वीर्यशब्दस्य यदन्तस्याप्याद्युदात्तत्वं न भवतीति। तस्मिन्नसति "तित्स्वरितम्()" ६।१।१७९ इत्यन्तस्वरितमेव भवति॥