पूर्वम्: ६।२।१७८
अनन्तरम्: ६।२।१८०
 
सूत्रम्
अन्तश्च॥ ६।२।१७९
काशिका-वृत्तिः
अन्तश् च ६।२।१८०

अन्तःशब्दश्च उत्तरपदम् उपसर्गादन्तोदात्तं भवति। प्रान्तः। पर्यन्तः। बहुव्रीहिरयम् प्रादिसमासो वा।
न्यासः
अन्तश्च। , ६।२।१७९

अन्तःशब्दः "हसिमृग्रिण्()वमिदमिलूपूधुर्विभ्यस्तन्()" (द।उ।६।७) इति तन्प्रत्ययान्तत्वादाद्युदात्तः॥