पूर्वम्: ६।२।१२४
अनन्तरम्: ६।२।१२६
 
सूत्रम्
चेलखेटकटुककाण्डं गर्हायाम्॥ ६।२।१२५
काशिका-वृत्तिः
चेलखेटकटुककाण्डं गर्हायाम् ६।२।१२६

चेल खेट कतुक काण्ड इत्येतानि उत्तरपदानि तत्पुरुसे समासे गर्हायां गम्यमानायाम् आद्युदात्तानि भवन्ति। पुत्रचेलम्। भार्याचेलम्। उपानत्खेटम्। नगरखेटम्। दधिकटुकम्। उदश्वित्कटुकम्। भूतकाण्डम्। प्रजाकाण्डम्। चेलाऽदिसादृश्येन पुत्रादीनां गर्हा। तत्र पुत्रः चेलम् इव इति विगृह्य व्याघ्रादेराकृतिगणत्वादुपमितं व्याघ्रादिभिः इति समासः। गर्हायाम् इति किम्। परमचेलम्।
न्यासः
चेलखेटकटुककाण्डं गर्हायाम्?। , ६।२।१२५

"वेलृ चेलृ केलृ चलने" (धा।पा ५३५,५३६,५३७) अस्मात्? संज्ञायां घञ्(), चेलम्()=वस्त्रमुच्यते। "खिट उत्त्रासने" (धा।पा।३०२) [त्रासे-धा।पा।] अस्मादपि भावे घञ्()--खेटः, तृणनामैतत्()। ञित्स्वरेण चेलखेटशब्दावाद्युदात्तौ। कटुशब्दात्? संज्ञायां कन्? ४।३।१४५, गुणवचनमेतदाद्युदात्तम्()। काण्डमप्याद्युदात्तमेवेत्युक्तम्()। "चेलादीनां सादुश्येन पुत्रादीनां गर्हा" इति। यता चेलमकुलीनेन तन्तुवायेनोपजनितमेवं पुत्रोप्यकुलीनजो यः स "पुत्रचेलम्()" इत्युच्यते। यथा काण्डं सत्वपीडाकरमेवं भूतमपि। तत्र पुत्रशब्दः प्रत्ययस्वरेणान्तोदात्तः। स हि "अमिचिमिदिशसिभ्यः क्यः (द।उ।८।८६,पं।उ।४।१६३) इत्यनुवर्तमाने "पुरो ह्यस्वश्च (द।उ।८।८७,पं।उ।४।१६४) [पूञो ह्यस्वश्च--द।उ।,पुवो ह्यस्वश्च--पं।उ।] इति पुत्रशब्दः क्तप्रत्ययान्तो व्युत्पाद्यते। भार्याशब्दः "ऋहलोण्र्यत्()" ३।१।१२४ इति ण्यदन्तत्वादन्तस्वरितः। "णह बन्धने" (दा।पा।११६६) अस्मादुपपूर्वात्? क्विप्? "नहिवृति" ६।३।११५ इत्यादिना पूर्वपदस्य दीर्घत्वम्(), "नहो धः" ८।२।३४ इति नकारस्य धकारः, तस्य चत्र्वम्()--तकारः। उपानच्छब्दः कृत्स्वरेणान्तोदात्तः। नगा अस्मिन्? विद्यन्त इति "नगरात्? कुत्सनप्रावीण्ययोः" ४।२।१२७ इत्यस्मादेद निपातनाद्रप्रत्ययः, तेन नगरमन्तोदात्तम्()। दधीति "आदृगम" ३।२।१७१ इत्यादिन क्विन्प्रत्ययान्तो दधातेव्र्युत्पाद्यते, तेनाद्युदात्तः। उदकेन शूयत इत्युद()इआत्(), क्विप्()। "क्विब्वचिप्रच्छि" (द।उ।१०।२) इत्यादिना बहुलवचनाद्दीर्धोऽस्य न भवति। "उदकस्योदः संज्ञायाम्()" ६।३।५६ इत्युदभावः, कृत्स्वरेणान्तादात्तः। बूतशब्दोऽपि निष्ठान्तत्वादन्तोदात्तः। प्रजाशब्दः "उपसर्गे च संज्ञायाम्()" ३।२।९९ इति डप्रत्ययान्तः,--कतेन कृत्स्वरेणान्तोदात्तः। "परमचेलम्()" इति। अत्र पूजा गम्यते, न गर्हा॥