पूर्वम्: ६।३।५४
अनन्तरम्: ६।३।५६
 
सूत्रम्
वा घोषमिश्रशब्देषु॥ ६।३।५५
काशिका-वृत्तिः
वा घोषमिश्रशब्देषु ६।३।५६

घोष मिश्र शब्द इत्येतेषु च उत्तरपदेषु पादस्य वा पदित्ययम् आदेशो भवति। पद्घोषः, पादघोषः। पन्मिश्रः, पादमिश्रः। पच्छब्दः, पादशब्दः। निष्के च इति वक्तव्यम्। पन्निष्कः, पादनिष्कः।
न्यासः
वा घोषमिश्रशब्देषु। , ६।३।५५

घोषशब्दशबदशब्दाब्यां ["घोषशब्दशब्दाभ्यां--मुद्रितः पाठः] षष्ठीसमासः, मिश्रशब्दे च "पूर्वसदृश" २।१।३० इत्यादिना तृतीयासमासः। "निष्के चेति वकतव्यम्()" इति। निष्कशब्दे चोत्तरपदे पादशब्दस्य पदित्ययमादेशो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--"हिमकाषिहतिषु च" ६।३।५३ इत्यतश्चकारोऽत्रानुवत्र्तते, स चानुक्तसमुच्चयार्थः। अथ वा--सूत्रे "वा" इति योग विभागः क्रियते तेन निष्के चोत्तरपदे भविष्यतीति॥
बाल-मनोरमा
वा घोषमिश्रशब्देषु ९७९, ६।३।५५

वा घोष। शेषपूरणेन सूत्रं व्याचष्टे-पादस्य पदिति।

निष्के चेति। "पादस्य प"दिति शेषः।

तत्त्व-बोधिनी
वा घोषमिश्रशब्देषु ८३५, ६।३।५५

पच्छब्द इति। "सङ्ख्यैकवचनाच्च वीप्साया"मिति शस्।