पूर्वम्: ६।२।१२२
अनन्तरम्: ६।२।१२४
 
सूत्रम्
कन्था च॥ ६।२।१२३
काशिका-वृत्तिः
कन्था च ६।२।१२४

तत्पुरुषे समासे नपुंसकलिङ्गे कन्थाशब्दः उत्तरपदम् आद्युदात्तं भवति। सौशमिकन्थम्। आह्वकन्थम्। चप्पकन्थम्। संज्ञायां कन्थोशीनरेषु २।४।२० इति नपुंसकलिङ्गता। षष्ठीसमासा एते। नपुंसके इत्येव, दाक्षिकन्था।
न्यासः
कन्था च। , ६।२।१२३

कथि "क्लेशने" (()) अस्मात्? "गुरोश्च हलः" ३।३।१०३ इत्यकारः, तेन कन्थान्तोदात्ता। "सौशमिकन्थम्()" इति। शोभनः शमोऽस्य शुशमः "तस्यापत्यम्()" ४।१।९५ इत्यत इञ्()। तेनाद्युदात्तः सौशमिशब्दः। "आह्वकन्थम्()" इति। आङ्पूर्वस्य ह्वयतेः "आतश्चोपसर्गे" ३।१।१३६ इति कः, तेनाह्वशब्दस्याथादिस्वरेणा ६।२।१४३ न्तोदात्तः। "चप्पकन्थम्()" इति। "चप सान्त्वने" (धा।पा।३९९), अस्मात्? "पानी विषिभ्यः पः" (द।उ।७।२) इति बहुलवचनाच्चपोऽपि भवति। तेन चप्पशब्दोऽन्तोदात्तः॥