अतेः परमकृदन्तं पदशब्दश्च अन्तोदात्तो भवति। अत्यङ्कुशो नागः। अतिकशो ऽश्वः। अपदशब्दः खल्वपि अतिपदा शक्वरी। अकृत्पदे इति किम्? अतिकारकः। अतेर् धातुलोप इति वक्तव्यम्। इह माभूत्, शोभनो गार्ग्यः अतिगार्ग्यः। इह च यथा स्यात्, अतिक्रान्तः कारकाततिकारकः इति।
"अकृत्पदे" इति। अकृच्च पदं चाकृत्पदे--प्रथमाद्विवचनान्तमेतत्()। "अत्यङ्कुशो नागः" इति। अङ्कुशशब्दः "सानसिपर्णसि" (द।उ।१०।१७) [सानसिधर्णसिपर्णसि--द।उ। सानासिवर्णसिपर्णसि--पं।उ।पं।उ।४।१०७) इत्यादिना "अकि लक्षणे" (धा।पा।
१०२४) अस्मात्? पचाद्यच्(), टाप्(), "एकादेश उदात्तेनोदात्तः"
८।२।५। तेन कशान्तोदात्ता। "अतिपदा शक्वरी" इति। "खनो घ च"
३।३।१२५ इति पदेर्घः। घित्करणेन हि ज्ञापितम्()--तत्र घोऽन्यस्मादपि भवतीति। तेन पदमन्तोदात्तम्()।
"अतिकारकः" इति। करोतेर्ण्वुल्()। अत्र "तत्पुरुषे तुल्यार्थ"
६।२।२ इत्यादिना पूर्वपदस्याव्ययस्वरो भवति।
"अतेर्धातुलोपः" इति।
यत्र धातोर्लोपस्तत्रातेरुत्तरपदमन्तोदात्तं भवतीति वक्तव्यम्()।
किमर्थम्()? इत्याह--"इह" इत्यादि। यद्यतेर्धातुलोप इति नोच्येत, तदिहापि स्यात्()--शोभनो गाग्र्योऽतिगाग्र्य इति। भवति ह्रत्रातेरुत्तरपदमकृदन्तम्()। इह च न स्यात्()--अतिक्रान्तः कारकादतिकारक इति। "निरादयः क्रान्ताद्यर्थे पञ्चम्या" (वा।९४) इति प्रादिसमासः। अत्र हि कृदन्तः कारकशब्दः उत्तरपदम्()। तत्र यद्यतेर्धातुलोप ति नोच्यते तदिहापि न स्यात्()। एवं तूच्यमान इहापि भवति, अस्ति ह्रत्र क्रमेर्धातोर्लोपः। लोपः पुनस्तस्य समासे गम्यमानार्थत्वादप्रत्युज्यमानस्यादर्शनम्()॥