पुरुषशब्दो ऽन्वादिष्टवाची च अनोरुत्तरो ऽन्तोदात्तो भवति। अन्वादिष्टः पुरुषः अनुपुरुषः। अन्वादिष्ट अन्वाचितः कथितानुकथितो वा। अन्वादिष्टः इति किम्? अनुगतः पुरुषः अनुपुरुषः।
"पृ? पालनपूरणयोः" (दा।पा।
१४८९)--अस्मात्? "पुरः कुषन्()" (द।उ।९।१४) इति कुषन्प्रत्ययः। तेन पुरुषशब्द आद्युदात्तः। "अन्वादिष्टोऽन्वाचितः" इति। अप्रधानशिष्ट इत्यर्थः। यथा भिक्षामट गाञ्यानयेत्यत्र गोरानयनम्(),
यथा वा--"कर्त्तुः क्यङ्? सलोपश्च"
३।१।११ इत्यत्र सलोपः। "कथितानुकथितो वा" इति।
यः कथितात्? पश्चात्? कथितः स कथितानुकथितः।
यो वा किञ्चित्? पाक्? कथयित्वा पश्चात् कथ्यते कथ्यते स कथितानुकथित इत्युच्यते।
"अनुगतः पुरुषोऽनुपुरुषः" इति। यः पश्चाद्भवः पुरुष स एवमुच्यते॥