प्रथमावृत्तिः
सूत्रम्॥
सम्बोधने च॥ ३।२।१२५
पदच्छेदः॥
सम्बोधने ७।१ च ० लटः ६।१ १२४ शतृ-शानचौ १।२ १२४ वर्त्तमाने ७।१ १२४ धातोः ५।१ ?
अर्थः॥
सम्बोधने च विषये धातोः लटः स्थाने शतृशानचौ आदेशौ भवतः।
उदाहरणम्॥
हे पचन्, हे पचमान।
काशिका-वृत्तिः
सम्बोधने च ३।२।१२५
प्रथमासमनाधिकरणार्थ आरम्भः। सम्भोधने च विषये लटः शतृशानचौ प्रत्ययौ भवतः। हे पचन्। हे पचमान।
न्यासः
सम्बोधने च। , ३।२।१२५
"प्र()थमासमानाधिकरणार्थ आरम्भः" इति। अवधारणमिह द्रष्टव्यम्। पूर्वयोगो ह्रप्रथमासमानाधिकरणार्थः, क्वचित् प्रथमासमानाधिकरणार्थश्च; अयं तु प्रथमासमानाधिकरणार्थं एव। यदि तर्हि पूर्वसूत्रं प्रथमासमानाधिकरणार्थमपि,
तह्र्रेषंसति तौ यथा अन्यत्र प्रथमासमानाधिकरणेऽपि भवतस्तथा सम्बोधनेऽपि भविष्यत इत्यपार्थकम्? नापार्थकम्; तस्यैव प्रपञ्चार्थत्वात्। "हे पचन्" इति। "न ङिसम्बुद्ध्योः"
८।२।८ इति नलोपप्रतिषेधान्नलोपाभावः। "हे पचमान" इति। "एङ ह्यस्वात् सम्बुद्धेः"
६।१।६७ इति सुलोपः॥
बाल-मनोरमा
संबोधने च ९०४, ३।२।१२५
संबोधने च। "शतृशानचा"विति शेषः। प्रथमासमानाधिकरणार्थ आरम्भः। पूर्सूत्रस्थपुनर्लड्ग्रहणस्य अधकविधानार्थत्वादेव सिद्धे प्रपञ्चार्थमिदम्।