प्रथमावृत्तिः
सूत्रम्॥
वेरपृक्तस्य॥ ६।१।६५
पदच्छेदः॥
वेः ६।१ अपृक्तस्य ६।१ लोपः १।१ ६४
अर्थः॥
अपृक्तस्य वेः लोपः भवति।
उदाहरणम्॥
ब्रह्महा, भ्रूणहा। घृतस्पृक्, तैलस्पृक्। अर्द्धभाक्, पादभाक्, तुरीयभाक्।
काशिका-वृत्तिः
वेरपृक्तस्य ६।१।६७
लोपः इति वर्तते। वेः इति क्विबादयो विशेषाननुबन्धानुत्सृज्य सामान्येन गृह्यन्ते। वेरपृक्तस्य लोपो भवति। ब्रह्मभ्रूणवृत्रेषु क्विप्
६।२।८७। ब्रह्महा। म्रूणहा। स्पृशो ऽनुदके क्विन्
६।२।५८। घृतस्पृक्। तैलस्पृक्। भजो ण्विः
३।२।६२। अर्धभाक्। पादभाक्। तुरीयभाक्।
अपृक्तस्य इति किम्? वृदृभ्यां क्विन् दर्विः। कृगृशृसृजागृभ्यः क्वि। जागृविः।
लघु-सिद्धान्त-कौमुदी
वेरपृक्तस्य ३०५, ६।१।६५
अपृक्तस्य वस्य लोपः॥
न्यासः
वेरपृक्तस्य। , ६।१।६५
"वेः" इत्यादि।
क्विबादेरन्यस्य वेरपृक्तसंज्ञकसयाभावात्? क्विबादय एव गृह्रन्ते, कथं पुनर्वेरित्युच्यमाने क्विबादीनां सामान्येन ग्रहणमुपपद्यते,
यावता प्रकारादयस्येषां विशेषा अनुबन्धाः सन्ति? इति चोद्यनिरासाये दमुक्तम्()--"विशेषाननुबन्धानुत्सृज्य" इति। "ब्राह्रहा, भ्रूणहा" इति। "सौ च"
६।४।१३ इति दीर्घः "घृतस्पृक्()" इति। "क्विन्प्रत्ययस्य कुः"
८।२।६२ इति कुत्वम्()। "अर्धभाक्()"
इति। "चोः कुः"
८।२।३० इति कुत्वम्()।
दर्विरित्यादौ "उणादयो बहुलम्()"
३।३।१ इति बहुलग्रहणादेव लोपो न भवतीति शक्यते वक्तुम्(), अतः प्रपञ्चार्थम्()। वैचित्र्यार्थं वाऽपृक्तग्रहणम्()॥
बाल-मनोरमा
वेरपृक्तस्य , ६।१।६५
वेरपृक्तस्य। लोपो व्योः" इत्यतो "लोप" इत्यनुवर्तते। उत्सृष्टानुबन्धाः। सरक्वे क्विबादयो "वे"रित्यनेन गृह्रन्ते। इकार उच्चारणार्षथः, अपृक्तग्रहणात्, तदाह--अपृक्तस्य वस्येति। अपृक्तस्येति किम्?। जागृविः। क्विनः कृत्संज्ञायाः प्रयोजनमाह--कृत्तद्धितेति।