प्रथमावृत्तिः
सूत्रम्॥
षष्ठीयुक्तश्छन्दसि वा॥ १।४।९
पदच्छेदः॥
षष्ठीयुक्तः १।१ छन्दसि ७।१ वा ० पतिः १।१ ८ घि १।१ ७
काशिका-वृत्तिः
षष्ठीयुक्तश् छन्दसि वा १।४।९
पतिः इति वर्तते। पूर्वेण नियमेन असमासे न प्राप्नोति इति वचनम् आरभ्यते। षष्ठ्यन्तेन युक्तः पतिशब्दः छन्दसि वषये वा घिसंज्ञो भवति। कुलुञ्चानां पतये नमः, कुलुञ्चानां पत्ये नमः। षस्ठीग्रहणं किम्? मया पत्या जरदष्टिर्यथासः। छन्दसि इति किम्? ग्रामस्य पत्ये।
न्यासः
षष्ठीयुक्तश्छन्दसि वा। , १।४।९
अत्र यदि पतिशब्दः षष्ठीविभक्त्यन्तो घि ज्ञो भवतीत्येषोऽर्थोऽभिमतः स्यात्, तदा युक्तग्रहणमनर्थकं स्यात्; षष्ठीत्यवं ब्राऊयात्। तस्माद्युक्तग्रहणे सति षष्ठ()न्तशब्दान्तरेण युक्त इत्येषोऽर्थो विज्ञायत इत्यत आह-- "षष्ठ()न्तेन" इत्यादि। यदि पुनः पतिशब्दस्य षष्ठ()न्तस्य घिसंज्ञा स्यात्,
तदा किं स्यात्? पस्युरित्यत्रैव स्यात्, इह तु न स्यात्-- क्रुञ्चानामपतये नम इति।
"मया पत्या" इति। तृतीयायुक्तोऽत्र पतिशब्दः। अस्मदः "मपर्यन्तस्य"
७।२।९१ "त्वमावेकवचने"
७।२।९७ इति मादेशः। "योऽचि"
७।२।८९ इति यकारः॥