मात्रिकस्य ह्रस्वसंज्ञा कृता तस्य अनेन लघुसंज्ञा विधीयते। ह्रस्वम् अक्षरं लघुसंज्ञं भवति। भेता। छेत्त। अचीकरत्। अजीहरत्। लघुप्रदेशाः पुगन्तलघूपधस्य च इत्येवम् आदयः।
"भेत्ता" इति। "पुगन्तलघूपधस्य च"
७।३।८६ इति गुणः। "अचीकरत्" इत। कृञो णिच्, लुङ, अडागमः, च्लेश्चङ, णिलोपः,"णौ चङ्युपधायाः"
७।४।१ इति ह्यस्वः। "ओः पुयण्च्यपरे"
७।४।८० इति वचनं ज्ञापकम्-- णौ कृतं स्थानिवद्भवतीति। "चङि"
६।१।११ इति कृशब्दो द्विरुच्यते। "उरत्"
७।४।६६ इत्यत्त्वम्, रपरत्वम्, "सन्वल्लघुनि"
७।४।९३ इति लघुसंज्ञायां सत्यां सन्वद्भावादित्त्वम्, "दीर्घो लघोः"
७।४।९४ इति दीर्घत्वम्॥