मकारवकारयोश्च परतः मकारान्तस्य धातोः नकारादेशो भवति। अगन्म तमसः पारम्। अगन्व। गमेर्लङि बहुलं छन्दसि इति शपो लुक्। जगन्वान्। विभाषा गमहनजनविदविशाम्
७।२।६८ इति क्वसौ इडागमस्य अभावः। अपदान्तार्थः आरम्भः।
"अगन्म" इति। "स उत्तमस्य"
३।४।९८ इति सकारलोपः। "जगन्वान्()" इति। गमेर्लिट्(), क्वसुः, हल्ङ्यादि
६।१।६६ संयोगान्तलौपौ
८।२।२३, "सान्तमहतः"
६।४।१० इति दीर्घः, "गमहन"
६।४।९८ इत्यादिनोपधालोपः। "छन्दस्युभयथा"
३।४।११७ इति सार्वधातुकत्वं न भवति।
चकारः "धातौः" इत्यनुकर्षणार्थः॥