सकारान्तस्य संयोगस्य यो नकारः महतश्च तस्य उपधायाः दीर्घो भवति सर्वनामस्थाने परतः असम्बुद्धौ। श्रेयान्, श्रेयांसौ, श्रेयांसः। श्रेयांसि। पयांसि। यशांसि। महतः स्वल्वपि महान्, महान्तौ, महान्तः। असम्बुद्धौ इति किम्? हे श्रेयन्। हे महन्।
सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घोऽसम्बुद्धौ सर्वनामस्थाने। महान्। महान्तौ। महान्तः। हे महन्। महद्भ्याम्॥ ,
सकारेऽकार उच्चारणार्थः। सोन्तोऽस्य स तथोक्तः। "सान्त" इत्यविभक्तिकोऽयं निर्देशः, तत्रोत्पन्नायाः षष्ठ()आ लुप्तत्वात्()। "सकारान्तस्य संयोगो नकारो महतश्च" इति। तत्रापि नकार इत्यपेक्षते। सकारान्तस्य महतश्चेति द्वे अप्यवयवषष्ठ्यौ, सान्तसंयोगो यो नकारोऽवयवो महच्छब्दस्य च योऽवयव इत्यर्थः। एतेन सान्तसंयोगो महच्छब्दश्चोभयमप्येतन्नकारस्य विशेषणमिति दर्शयति। "तस्योपधायाः" इति। तस्येत्यनेन नकारः प्रत्यवमृश्यते। तस्य नकारस्य सम्बन्धिन्या उपधाया इत्यर्थः। एतैनापि नकार उपधाया विशेषणमित्याचष्टे।
कः पुनर्नकारस्योपधायाश्च सम्बन्धः येनासौ तस्येति व्यपदिश्यते? निमित्तनिमित्तिभावः।
अन्तयनकारापेक्षया हि पर्वत्वे सत्यन्तनकारात्? पूर्वो वर्ण उपधा भवति। तस्मान्नकारो निमित्तम्(), उपरधा निमित्तनौ। अथ वा--समीपसमीपिलक्षणः सम्बन्धः, एतेन नकारसमीपवर्त्तिन्या उपधाया इत्यर्थः। "श्रेयान्()" इति। प्रशस्योऽयम्(), प्रशस्योऽयम्(), अनयोरयम्प्रकर्षेण प्रशस्य इति "द्विवचनविभज्योपपदे तरबीयसुनौ"
५।३।५७ इतीयसुन्(), "प्रशस्यस्य श्रः"
५।३।६० इति श्रादेशः, "प्रकृत्यैकाच्()"
६।४।१६३ इति प्रकृतिवद्भावाट्टिलोपः, "यस्येति च"
६।४।१४८ इति लोपश्च न भवति। "उगिदचाम्()"
७।१।७० इत्यादिना नुम्(), हल्ङ्यादि
६।१।६६ संयोगान्त
८।२।२३ लोपौ। "श्रेयांसि, पयांसि" इति। पूर्ववज्जसः शिभावः "नपुंसकस्य झलचः"
७।१।७२ इति नुम्()।
कथं पुनरत्र नकारात्? पूर्वस्योपधात्वम्(), यावता "अलोन्त्यात्पूर्व उपधा" (१।१।
६५) इत्यलां सन्निविष्टानां योऽन्त्योऽल्? ततः पूर्वस्योपधासंज्ञा विहिता। न चात्र नकारोऽन्त्यः,
किं तर्हि? सकारः? नैष दीषः; अपेक्षितं ह्रन्त्यत्वम्()।
तत्? सकारात्? पूर्वे ये वर्णास्तेषां नकारोऽन्त्य इति। ततः पूर्वो वर्ण उपधा भवति। यद्येवम्(),
तक्षको रक्षक इत्यत्रापि सकारात्? पूर्वे ये वर्णास्तेषां ककारोऽन्त्य इति, ततः पूर्वोऽवर्ण उपधा स्यात्(), ततश्च "अत उपधायाः, (७।२।
११६) इति वृद्धिः स्यात्()? नैतदस्ति; अङ्गस्य योऽकार उपधा तस्या वृद्धिर्विधीयते। न चात्राकारोऽङ्गस्यीपधा, अतो न भविष्यतीति--एतचचाशक्यं वक्तुम्(), अकारस्याङ्गावयवत्वात्()। पाचक इत्यादावप्यङ्गावयवत्वादकारोऽङ्गस्योपधेत्युच्यते,
तस्मात्? प्राप्नोत्येव वृद्धिः? नैष दोषः, "अत उपधायाः"
७।२।११६ इत्यत्र हि "ञ्णिति"
७।२।११५ इत्यनुवत्र्तते, तेनोपधा विशिष्यते--ञिति प्रत्यये परतो योपधेति, तत्र "येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्()" (व्या।प।४९) इत्येकेन वर्णेन व्यवधानमाश्रोयते, न पुनरनेकेन। तक्षकः,
रक्षक इत्यत्रानेकेन वर्णेन व्यवधानम्? अतो न भवति वृद्धिप्रसङ्गः।
इह तु सूत्रेन सर्वनामस्थानेनोपधा विशिष्यते,
किं तर्हि? संयोगः--तेन सर्वनामस्थाने परतो यः संयोग इति। तेन यत्र संयोगादनन्तरं सर्वनामस्थानं तत्र यद्युपधायाः सर्वनामस्थानस्य चानेकवर्णकृतं व्यवधानम्(), तथापि दीर्घत्वं भवत्येव। अत एव सर्वनामस्थानं तत्र यद्युपधायाः सर्वनामस्थानस्य चानेकवर्णकृतं व्यवधानम्(), तथापि दीर्घत्वं भवत्येव।
अत एव सर्वनामस्थानेन संयोगसय विशेषणात्? हंसौ, हंसा इत्यत्र दीर्घत्वं न भवति। न ह्रत्र संयोगादनन्तरं सर्वनामस्थानमस्ति, अकारेण व्यवधानात्()। अथेह कस्मान्न भवति--हंसमाचष्ट इति, "तदाचष्टे" (वा।
२०१) इति णिच्? णाविष्ठवत्? कार्यं प्रातिपदिकस्य (वा।८१३) इति टिलोपः, हंसयतेः क्विप्()--हन्(),
हंसौ हंस इति? "वा षपूर्वस्य निगमे"
६।४।९ इत्यतो वाग्रहणानुवृत्तेः। न चैवं सति सर्वत्र विकल्पप्रसङ्गः; व्यवस्थितविभाषात्वात्()। एतेन "हिसि हिंसायाम्()" (धा।पा।
१८२९) इत्यस्य क्विबन्तस्य सुहिन्? सुहिंसौ सुहिंस इत्यत्र दीर्घत्वाभावो वेदितव्यः।
यस्त्वाह--"इदितो नुम्? धातोः"
७।१।५८ इत्यनेन नित्यो नुम्(); नुम्विधावुपदेशिवद्वचनात्(), ततो नुमः पृथक्सिद्धत्वं नास्ति, अत्र तु सिद्धानां सम्बन्धः समवायो भवति, न तु संयोगः। तेन संयोगाभावादिह दीर्घत्वं न भवति तन्मतेन संयोगान्तलोपोऽपि सुहन्नित्यत्र न स्यात्()। नेह वैशेषिकशास्त्रप्रसिद्धोऽयं संयोगो गृह्रते अपि तु "हलोऽन्तराः संयोगः"
१।१।७ इति हलान्नैरन्तर्यलक्षण इह शास्त्रे प्रसिद्धः संयोग एव। स चेहास्त्येवेत्यसारः परिहारः। "महान्()" इति। "वत्र्तमाने पृषद्वृहन्महज्जगच्छतृवच्च" (द।उ।६।५) इति निपातनसूत्रेण शतृवदित्यतिदेशादुगित्कार्यं नुम्()।
सान्तमहत इति किम्()? बृहन्ति॥