मकारन्तस्य धातोः पदस्य नकारादेशो भवति। प्रशान् प्रतान्। प्रदान्। शमितमिदमादीनां क्विप्, अनुनासिकस्य क्विझलोः क्ङिति
६।४।१५ इति दीर्घत्वम्। नत्वस्य असिद्धत्वान् नलोपो न भवति।
मः इति किम्? भित्। छित्।
धातोः इति किम्? इदम्। किम्। पदस्य इत्येव, प्रतामौ। प्रतामः।
"पदस्य" इति वत्र्तते। तच्च धातुसमानाधिकरणं मकारेण विशेष्यते--मकारान्तस्य पदस्य धातोरिति। "प्रशान्(),
प्रतान्? इति। "शमु उपशमे" (धा।पा।१२०१), "तमु काङ्क्षायाम्()" (धा।पा।१२०२), क्विप्(), "अनुनासिकस्य क्विझलोः क्ङिति"
६।४।१५ इत्युपधादीर्घत्वम्(), हल्ङ्यादिलोपः
६।१।६६। अथेह "नलोपः प्रातिपदिकान्तस्य" (८।२।
७) ति नकारलोपः कस्मान्न भवति? इत्याह--"नत्वस्य" इत्यादि॥
अथ मकारान्ताः। अथ प्रपूर्वात्शमुधातोः क्विपि "अनुनासिकस्य क्वझलोः क्ङिति" इति दीर्घे सति निष्पन्ने प्रशाम्शब्दो विशेषमाह--मो नो धातोः। "म" इति षष्ठ()न्तं "धातो"रित्यस्य विशेषणं, ततस्तदन्तविधिः। पदस्येत्यधिकृतं, "स्कोः संयोगाद्योः" इत्यतोऽन्ते इत्यनुवर्तते। तदाह-मान्तस्येत्यादिना। "अलो।ञन्त्यस्ये"ति मकारस्य भवति। तत्र सोर्हल्ङ्यादिलोपे सति नकारस्य प्रातिपदिकान्तत्वात्पदान्तत्वाच्च "न लोपः प्रातिपदिकान्तस्ये"ति नलोपमाशङ्क्याह--नत्वस्येति। प्रशानिति। स्वरादिपाठेऽप्यस्य नाव्ययत्वं, सत्त्ववाचित्वात्। असत्त्ववाचित्वे तु स्वरादिपाठाद्वययत्वमेवेति भावः। प्रशान्भ्यामिति। भ्यामादो हलि "स्वादिष्वसर्वनामस्थाने" इति पदत्वान्नत्वमिति भावः। इत्यादीति। प्रशान्भिः। प्रशामे। प्रशान्भ्यः। प्रशामः। प्रशामः। प्रशामोः। प्रशामाम्। प्रशामि प्रशान्त्सु-प्रशान्सु। "नश्चेति"धृड्विकल्पः। अथ कायतेर्ङिमिरिति निष्पन्नः किम्()शब्दः प्रष्टव्ये वर्तते।