उदात्तातुत्तरस्य अनुदात्तस्य स्वरितादेशो भवति। गार्ग्यः। वात्स्यः। पचति। पठति। अस्य स्वरितस्य असिद्धत्वातनुदात्तं पदम् एकवर्जम्
६।१।१५२ इत्येतन् न प्रवर्तते। तेन उदात्तस्वरितौ उभावपि श्रूयेते।
"गार्ग्यः, वात्स्यः" इति।
गर्गवक्ष्तशब्दाभ्याम्? "गर्गादिभ्यो यञ्()"
४।१।१०५ इति यञ्(), "ञ्नित्यादि नित्यम्()" ["ञ्नित्यादेनि"--प्रांउद्रितः पाठः]
६।१।१९१ इत्यत्त्युदात्तत्वम्, "अनुदात्तं पदमेकवर्जम्()"
६।१।१५२ इति शेषस्यानुदात्तत्वम्(), तस्य स्वरितो भवति। "पचति, पठति" इति। तिप्सपौ पित्त्वादनुदात्तौ। पकारस्याकारोऽपि धातुस्वरेणोदात्तः।
तस्मात्? परस्य शवकारस्य स्वरितत्वं भवति।
किं पुनः कारणं सूत्रमिदमिहोचयते, न "तित्स्वरितम्()"
६।१।१७९ इत्यस्यानन्तरमुच्यताम्(), एवं हि स्थरितग्रहणं न कत्र्तव्यं भवति;
प्रकृतमेव ह्रनुवर्त्तिष्यते? इत्याह--"अस्य" इत्यादि। यदि तत्र क्रियेत, तदा "अनुदात्तं पदमेकवर्जम्()"
६।१।१५२ इत्येतदिह प्रवत्र्तेत, तत्श्चानुदात्तस्वरितौ श्रूयेयाताम्(), नोदात्तस्वरितौ।
इह तु क्रियमाणे स्वरितस्यासद्धत्वात्? तदाश्रयम्? "अनुदात्तं पदमेकवर्जम्()"
६।१।१५२ इति न प्रवत्र्तते, तेन द्वावप्यस्योदात्तस्वरितौ श्रूयेते॥