पदातिति निवृत्तम्। सगतिरपि तिङिति वर्तते। कुत्सने च सुबन्ते गोत्रादिवर्जिते परतः सगतिरपि तिङगतिरपि अनुदात्तो भवति। पचति पूति। प्रपचति पूति। पचति मिथ्या। प्रपचति मिथ्या। कुत्सने इति किम्? पचति शोभनम्। सुपि इति किम्? पचति क्लिश्नाति। अगोत्रादौ इति किम्? पचति गोत्रम्। पचति ब्रुवम्। पचति प्रवचनम्। क्रियाकुत्सन इति वक्तव्यम्। कर्तुः कुत्सने मा भूत्, पचति पूतिर् देवदत्तः। प्रपचतिपूतिः। पूतिश्चानुबन्धो भवति इति वक्तव्यम्। तेन अयं चकारानुबन्धकत्वादन्तोदात्तो भवति। विभाषितं च अपि बह्वर्थम् अनुदात्तम् भवति इति वक्तव्यम्। पचन्ति पूतिः, पचन्ति पूतिः। प्रपचन्ति पूतिः, प्रपचन्ति पूतिः। सुपि कुत्सने क्रियाया मलोप इष्टो ऽतिङि इति चोक्तार्थम्। पूतिश्च चानुबन्धो विभाषितं च अपि बह्वर्थम्।
"पचति पूति" इति।
पतिशब्दसय क्रियादिविशेषणत्वात्? "स्वमोर्नपुंसकात्()"
७।१।२३ इति विभक्तेर्लुक्()। "पचति, क्लिश्नाति" इति। "क्लिशू विबाधने" (धा।पा।१५२२),
क्र्यादित्वात्? श्ना।
अत्र क्लिश्नातीत्येतत्? कुत्सनं भवति, यो यस्य बाधनं करोति तेन स कुत्स्यते। सम्बन्धोऽप्यनयोस्तिङन्तयोरस्त्येव।
यस्मात्? पचति तस्मात्? क्लिश्नातीति। सुबन्तं तु क्लिश्नातीत्येतन्न भवति, अस्य न भवति निघातः।
"क्रियाकुत्सने" इत्यादि। तिङन्ते द्वयमस्ति--साधनम्(), क्रिया च। तत्र क्रियायाः कुत्सनेऽनुदात्तत्वं भवतीत्येतदर्थमिदं व्याख्येयम्(), कर्त्तुः कुत्सने मा भूदित्येवमर्थं च। तत्रेदं व्याख्यानम्()--"चादिलोपे विभाषा" विभाषा"
८।१।६३ इत्यतो विभाषाग्रहणमनुवत्र्तते। व्यवस्थितविभाषा च सा, तेन क्रियाकुत्सन एव भविष्यति, न कर्त्तुः कुत्सन इति। ननु च क्रियाप्रधानमाख्यातम्(), साधनं तु तत्राप्रधानम्(), तस्य क्रियाङ्गत्वात्(), अत्र प्राधान्यादेव पतीत्येवमादिना विशेषणेन क्रियाया एव सम्बन्धो भविष्यति, न गुणभूतस्य कर्तुः,
तत्किमुच्यते क्रियाकुत्सनमिति? एवं मन्यते--यथैव कृदन्तेषु दारुणाध्यायकादिषु क्रियायाः प्रधानभूताया अपि विशेषणेन सम्बन्धो भवति, तथाऽख्यातेष्वप्राधान्येऽपि साधनस्य विशेषणेन सम्बन्धेन भवितव्यमिति।
"पूतिश्चानुबन्धः" इत्यादि। पूतिशब्दश्चकारानुबन्धो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--चकारोऽत्र क्रयते, स चानुक्तसमुच्चयार्थः, तेन पूतिश्चानुबन्धो भविष्यतीति। ननु च पूतिशब्दस्य प्रातिपदिकत्वादप्रतिषिद्धमेवान्तोदात्तत्वम्(),
कस्मात्? स चानुबन्धः क्रियते? न चायं क्तिन्नन्तः, पूतिरयमिति पुंसा सामानाधिकरण्यात्()। तह्र्रनेन चकारानुबन्धकरणेनैवैतद्()दर्शयति--यत्र सगतेस्तिङोऽनुदात्तत्वं तत्र पूतेरन्तोदात्तत्वम्(), अन्यत्रायमाद्युदात्त एव; तेन क्रियाकुत्सनेऽन्तोदात्तः कत्र्तव्यः, कुत्सन आद्युदात्त इति। "तेनायम्()" इत्यातदिना चानुबनधकत्वस्य फलं दर्शयति।
"विभाषितम्()" इत्यादि।
बह्वर्थ यत्? तिङन्तं तद्विभाषाऽनुदात्तं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं त्विहापि विभाषाग्रहणानुवृत्तेः। तेन व्यवस्थितविभाषात्वं चश्रित्य कत्र्तव्यम्()।
"सुपि कुत्सने" इत्यादि। अथमुक्तार्थसंग्रहश्लोकः। तत्राद्येन पादेन यदुक्तं क्रियाकुत्सन इति वरक्तव्यमिति तस्य संग्रहः। "मलोपः" इत्यादि।
नास्मिन्? तिङ्? विद्यत इत्यतिङिति।
स पुनः प्रस्तावात्? [प्रस्तादान्()--प्रा।कांउद्रितपाठौ] काष्ठादीनां समासो विज्ञायते। तत्रातिङि काष्ठादिसमासे मलोप इष्टः। एतच्च मलोपश्चेत्यनेनायमेव विषय आख्यायत इत्यादिना तूक्तार्थम्(), तदनेन समास चैतदनुदात्तत्वमित्यादिना यदुक्तं ततसर्वं ग्रहीतुम्()। अथ वा मलोप इत्यनेन मलोपश्चेत्येतद्वचनमुपलक्षयति। अस्य चोक्तार्थमित्यनेन सम्बन्धः।
तदेतदुक्तं भवति--मलोपश्चेति यत्? कार्यं वचनं तन्मलोपश्चेत्यनेनैपित्यादिना पूर्वमेवोक्तप्रयोजनमिति। "अतिङि" इति।
अनुदात्तमित्येतद्वक्तव्यमिति वृत्तभङ्गभयान्नोक्तम्()।
अनुक्तमपि तस्य श्लोकस्य पूर्वोक्तार्थसंग्रहार्थत्वात्? काष्ठादीनाम च पूर्वमनुदात्तस्य चोक्तत्वाद्गम्यत एव। अतिङीति चानेन बहुव्रीहिणा समासः। तेनैतदुक्तं भवति--काष्ठादीनां समासेऽनुदात्तत्वं भवतीति। शेषं सुगमम्()॥