चादयः, न चवाहाहएवयुक्ते
८।१।२४ इति सूत्रनिर्दिष्टा गृह्यन्ते। तेषां लोपे प्रथमा तिङ्विभक्तिः नानुदात्ता भवति विभाषा। चलोपे शुक्ला व्रीहयो भवन्ति, भवन्ति, अवेता गा आज्याय दुहन्ति। भवन्ति इत्येतद् विकल्पेन न निहन्यते। वालोपे व्रीहिभिर्यजेत, यजेत, यवैर्यजेत। एवं शेषेष्वपि यथादर्शनम् उदाहार्यम्।
"सूत्रनिर्दिष्टा गह्रन्ते" इति। पूर्वतः प्रत्यासत्तेः। अत्र चवालोपे "चवायोगे प्रथमा"
८।१।५९ इति प्राप्ते विभाषा, परिशेषाणामप्राप्ते। "भवन्ति" इति। पक्षे प्रत्ययस्वरेण मध्योदात्तः। "यजेत" इति। अत्र पक्षेऽदुपदेशाल्लसार्वधातुकस्यानुदात्तत्वे कृते धातोकदात्तत्वे सत्याद्युदात्तत्वम्()॥