यगि च परतः अर्तेः संयोगादेश्च ऋतः गुणो भवति। अरार्यते। सास्वर्यते। दाध्वर्यते। सास्मर्यते। अर्तेः अट्यर्त्यशूर्णोतीनाम् उपसंख्यानम् इति यङ्। न न्द्राः संयोगादयः
६।१।३ इति द्विर्वचनप्रतिषेध्H यकारस्य नेष्यते।
हन्तेर्हिसायां यङि घ्नीभावो वक्तव्यः। जेघ्नीयते।
हिंसायाम् इति किम्? जङ्घन्यते।
पूरवेम प्राप्तस्य रीङोऽयमपवादः। "अरार्यते" इति। यङ गुणः, रपरत्वम्()। "अजादेर्द्वितीयस्य
६।१।२ इति द्विर्वचनम्(); हलादिशेषः, "दीर्घोऽकितः"
७।४।८३ इति दीर्घत्वम्()।
ननु चात्र्तेरहलादित्वाद्यङ न प्राप्नोति? इत्यत आह--"अर्त्तेः" इत्यादि।
भवतु नामोपसंख्यानाद्यङ्(), रेफादेश्तु द्विर्वचनेन न भवितव्यम्(), "न न्द्राः संयोगादयः" (६।१।
३) इति प्रतिषेधात्()? इत्यत आह--"न न्द्राः संयोगादयः" इति।
उक्तं हि ततर--यकारपरस्य रेफस्य प्रतिषेधो वक्तव्यः। तस्माद्रेफादेर्यं इत्येतस्य द्विर्वचनं भवति। "जङ्घन्यते" इति। "नुगतोऽनुनासिकान्तस्य"
७।४।८५ इति नुक्(), "अभ्यासाच्च"
७।३।५५ इति कुत्वम्()॥