अत्र दीर्घोच्चारणं किमर्थम्(), दीर्घो यथा स्यात्(),
ह्यस्वो मा भूत्()? नैतदस्ति; ह्यस्वस्यापि हि विधाने अकृत्सार्वधातुकयोर्दीर्घः"
७।४।२५ इत्येवं सिध्यति, "च्वौ च" (७।४।
२६) इति यथायोगं दीर्घो भविष्यति? एवं तह्र्रेतज्ज्ञापयति--"संज्ञापूर्वको विधिरनित्यः" (व्या।प।६४) इति। तेन स्वायम्भुवमिति सिद्धं भवति॥
ई घ्माध्मोः। दीर्घोच्चारणं प्राग्वत्। जेघ्रीतः [वस्तुतस्तु] "अस्य च्वौ" इत्याद्यर्थ दीर्घग्रहणमिति तु सुवचम्। शाशय्यते इति। परत्वादन्तरङगत्वाच्चाऽयङादेशे कृते द्वित्वम्।
इति तत्त्वबोधिन्यां यङन्तक्रिया।
अथ यङ्लुगन्तप्रक्रिया।