द्वितीयस्य इति वर्तते। द्वितीयस्य एकाचो ऽवयवभूतानां न्द्राणां तदन्तर्भावात् प्राप्तं द्विर्वचनं प्रतिषिध्यते। नकारदकाररेफा द्वितीयैकाचो ऽवयवभूताः संयोगादयो न द्विरुद्यन्ते। उन्दिदिषति। अड्डिडिषति। अर्चिचिषति।
न्द्राः इति किम्? ईचिक्षिषते।
संयोगादयः इति किम्? प्राणिणिषति। अनितेः
८।४।१९ उभौ साभ्यासस्य
८।४।२० इति णत्वम्। अजादेः इत्येव, दिद्रासति। केचिदजादेः इत्यपि पञ्चम्यन्तं कर्मधारयम् अनुवर्तयन्ति। तस्य प्रयोजनम्, इन्दिद्रीयिषति इति। अजादेरनन्तरत्वाभावाद् दकारो द्विरुच्यत एव, नकारो न द्विरुच्यते। इन्द्रम् इच्छति इति क्यच्। तदन्तातिन्द्रीयितुम् इच्छति इति सन्।
बकारस्य अप्ययं प्रतिषेधो वक्तव्यः। उब्जिजिषति। यदा बकरोपध उब्जिरुपदिश्यते तदा अयं प्रतिषेधः।
दकारोपधोपदेशे तु न वक्तव्यः। बत्वं तु दकारस्य विधातव्यम्।
यकारपरस्य रेफस्य प्रतिषेधो न भवति इति वक्तव्यम्। अरार्यते। अर्तेः अट्यर्तिशूर्णोतीनाम् उपसंख्यानम्
७।४।८२ इति यङ्। तत्र यङि च
७।४।३० इति गुणः, ततो द्विर्वचनम्।
ईर्ष्यतेस् तृतीयस्य द्वे भवत इति वक्तव्यम्।
कस्य तृतीयस्य? केचिदाहुर् व्यञ्जनस्य इति। ईर्ष्यियिषति। अपरे पुनः तृतीयस्य एकाचः इति व्याचक्षते। ईर्ष्यिषिषति। कण्ड्वादीनां तृतीयस्य एअकाचो द्वे भवत इति वक्त्व्यम्। कण्डूयियिषति। असुयियिषति।
वा नामधातूनां तृतीयस्य एकाच् द्वे भवत इति वक्तव्यम्। अश्वीयियिषति। अशिश्वीयिषति।
अपर आह यथा इष्टं नामधातुष्विति वक्तव्यम्। पुपुत्रीयिषति। पुतित्रीयिषति। पुत्रीयियिषति। पुपुतित्रीयियिषति। पुत्रीयिषिषति।
अचः पराः संयोगादयो नदरा द्विर्न भवन्ति। नुशब्दस्य द्वित्वम्। ऊर्णुनाव। ऊर्णुनुवतुः। ऊर्णुनुवुः॥
"तदन्तर्भावात्()" इति।
अवयवानां समुदायाभ्यन्तरत्वात्? तदन्तभविः। "अवयवभूताः" इति। आदिशब्दस्य नियतदेशावयववाचित्वाद्विशिष्टदेशावयवभूता इत्येषोऽर्थो वेदितव्यः। "अन्दिविषति" इति। "उन्दी क्लेदने", (धा।प।१४५७) सनीट च कृते दिष्शब्दस्य द्विर्वचनम्()। "अड्डिडिषति" इति। "अद्ड अभियोगे (धा।पा।३४८) इत्यत्र यः संयोगः स दकारादिः, तस्य ष्टुत्वेन दकारस्य डकारः, ष्टुत्वञ्च द्विर्वचनेऽसिद्धम्(), तेन सनीटि कृते विष्शब्दो द्विरुच्यते ततः ष्टुत्वम्। "अर्चिचिषति" इति "अर्च पूजायाम्()" (धा।पा।२०४), चिष्शब्दस्य द्विर्वचनम्()। "ईचिक्षिषते" इति। "ईक्ष दर्शने" (धा।पा।
६१०) सनीटि च कृते क्षिष्शब्दस्य द्विर्वचनम्? "हलादिः शेषः"
७।४।६०, "कुहोश्चुः"
७।४।६२ इति चुत्वम्()। "प्राणिणिषति" इति। "()आस प्राणने" (धा।पा।१०६९), "अन च" (धा।पा।१०७०) प्रपूर्वः। "दिद्रासति" इति। "द्रा कुत्सितायाङ्गतौ" (धा।पा।१०५४)।
"केचिदजादेः" इत्यादि। तेषां मतेनाजादेरुत्तरे ये नकारादयः संयोगादिभूतास्ते न द्विरुच्यन्त इति शूत्रार्थः।
किं पुनस्तदनुवर्तनस्य प्रयोजनम्()? इत्यत आह--"तस्य" इत्यादि। दकारस्तु द्विरुच्यत एवेति कर्मधारयपञ्चम्यन्तानुवृत्तौ हि "तस्मादित्युत्तरस्य"
१।१।६६ इत्यनन्तराणामेव नकारादीनां द्विर्वचनप्रतिषेधेन भवितव्यम्(); निर्दिष्टग्रहणस्यानन्तर्यार्थत्वात्()। दकारस्तत्र यद्यपि रेफदकारयोर्यः संयोगस्तदादिभूतः, तथापि नकारेण व्यवहितः। तस्माद्दकारोऽपि द्विरुच्यत एव। "इन्दिद्रीयिषति" इति।
इन्द्रशब्दात्? क्वचि कृते "क्यचि च"
७।४।३३ इतीत्त्वम्(),
क्यजन्तात्? सन्(), इट्(), "अतो लोपः"
६।४।४८ इत्यकारलोपः। "उब्जिजिषति" इति। "उब्ज आर्जवे" (धा।पा।१३०३)।
"यदा बकारोपध उब्जरुपदिश्यते तदायं प्रतिषेधो वक्तव्यः।
दकारोपदेशे तु न वक्तव्यः "न न्द्राः" इत्यनेनैव सिद्धत्वात्()। "बत्वं तु तदा दकारस्य विधातव्यम्()" इति। उब्जित, उब्जिजिषतीति यथा स्यात्()। तदपि बतद्वमकुत्वविषये विधातव्यम्(); अन्यथाऽभ्युद्गः, समुद्ग इति न सिध्येत्()। दकारोपधस्यैव युक्तः पाठः।
बत्वमात्रं वक्तव्यम्()? तदपि न वक्तवयम्(); तत्र "भुजन्युब्जौ पाण्युपतापयोः" (७।३।
६१) इति निपातनादेव लिङ्गाव्? बत्वं लभ्यते। न चाभ्युद्गः, समुद्ग इत्यत्रापि प्रसज्येत, अकृत्वविषयत्वान्निपातनस्य; यत्र कुत्वं नास्ति तत्रैव बत्वं विज्ञायते, न तु कुत्वविषये।
"यकारपरस्य" इत्यादि।
यकारः परो यस्मात्? तस्य प्रतिषेधो न स्यादित्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्र कैश्चिदेवं व्याख्यायते--बहिरङ्गो रेफः, "गुणोऽर्त्तिसंयोगाद्योः"
७।४।२९ "यङि च"
७।४।३० इति गुणोऽङ्गस्य विधीयमानो यङि भवति बहिरङ्गः, तदाश्रितो रेफोऽपि बहिरह्ग एव, ततश्च सोऽन्तरङ्गे प्रतिषेऽसद्धः।
तस्मात्? तसय द्विर्वचनप्रतिषेधो न भवतीति। यद्येवम्(),
इन्दिदिषतीति नुमोऽपि प्रतिषेधो न प्राप्नोतीति? नैष दोषः; वक्ष्यति ह्रेतत्()--नुम्विषावुपदेशिवद्वचनमिति।
नैयायिकास्त्वन्यथा वर्णयन्ति--"न न्द्राः संयोगादयः"
६।१।३ इति।
तैः किमुक्तम्()? संयोगात्? पूर्वे नकारादयो न द्विरुच्यन्ते स चेद्भवति यकारान्तः संयोगः" इति तेनाराय्र्यत इत्यत्र संयोगस्य यकारान्तत्वात्? प्रतिषेधो न भवतीति। "अराय्र्यते" इति। "यङि च"
७।४।३० इति गुणे रपत्वे च र्यशब्दस्य द्विवचनम्(), हलादिशेषः
७।४।६० "दीर्घोऽकितः"
७।४।८३ इति दीर्घः। ननु चार्तेरहलादित्वाद्()यङा न भवितव्यम्(), स हि "धातोरेकाचः" (३।१।
२२) इत्यादिना हलादेरेव धातोर्विधीयते? इत्याह--"अर्त्तेः" इत्यादि।
"व्यञ्जनस्य" इति।
ईष्र्यतेव्र्यञ्जनं यदेकाच्? द्विर्वचनं कत्र्तव्यम्()। तच्च व्यञ्जनं यकारः, तस्येटि कृते साच्कस्यैव द्विर्वचनं कत्र्तव्यमम्()।
"एकाचः" इति। सनः।
स हीटि कृते तृतीय एकाज्? भवति। तस्य द्विर्वचने कृते "सन्यतः"
७।४।७९ इतीत्त्वम्()। पूर्वं पूर्वमिणमाश्रित्य सर्वसकाराणां षत्वम्()। "कण्डूयियिषति" इति। "असूयियिषति" इति। "कण्डूञ्()", "असूञ्()" इति कण्ड्वादिषु पठ()एते, ततः "कण्ड्वादिभ्यो यक्()"
३।१।२७।
"वा नामधातूनाम्()" इति। सुब्धातुर्नामधातुरभिधीयते। "अ()आईयियिषति" इति।
अ()आशब्दात्? क्यजन्तात्? सनीटि च कृते यिष्शब्दस्य द्विर्वचनम्()। "आशि()आईयिषति" इति। ()आईशब्दस्य द्विर्वचनम्(), ह्यस्वत्वम्(), हलादिशेषः
७।४।६०।
"यथेष्टम्()" इति। प्रथमादीनामन्यतरस्य यस्येष्यते तस्य कत्र्तव्यमिति॥