सूत्रम्॥ किति च॥ ७।२।११८
पदच्छेदः॥ किति ७।१ ७।३।३१ च ० तद्दितेष्वचामादेः ? अचः ? वृद्धिः ? अङ्गस्य ?
अर्थः॥
उदाहरणम्॥
पृथिव्या ञाऽञाविति। ञश्च, अञ् च वक्तव्यावित्यर्थः। पार्तिवेति। पृथिव्या अपत्यादीति विग्रहः। ञप्रत्यये "चुटू" इति ञकार इत्, आदिवृद्धिः,"यस्येति चे"ति लोपः। स्त्रियामदन्तत्वाट्टाप्। पार्थिवीति। अञि "टिड्ढाण"ञिति ङीप्। ञप्रत्ययस्यैव विधौ ङीब् न स्यात्। अञ एव विधौ टाब् न स्यात्। तस्मादुभयविधिः। #एतत्सूचनायः स्त्रीलिङ्गोदाहरणमिति बोध्यम्। देवादिति। देवशब्दाद्यञ्, अञ् च प्रत्ययौ प्राग्दीव्यतीयेष्वर्थेषु वक्तव्यावित्यर्थः। दैव्यं दैवमिति। "देवस्यापत्यादी"ति विग्रहः। यञि अञि च आदिवृद्धौ "यस्येति चे"ति लोपः।
बहिष इति। "बहि"सिति सकारान्तमव्ययम्। तस्मात्प्राग्दीव्यतीयेष्वर्थेषु यञ्, प्रकृतेष्टिलोपश्चेति वक्तव्यमित्यर्थः। बाह्र इति। बहिर्भव इत्यादि विग्रहः। यञि टिलोपे आदिवृद्धिः। "अव्ययानां भमात्रे टिलोप" इत्यस्याऽनित्यत्वज्ञापनार्थमिह टिलोपविधानम्। तेन आराद्भव आरातीय इत्यादि सिध्यति।
ईकक् चेति। बहिष ईकक् च स्यात्, प्रकृतेष्टिलोपश्चेति वक्तव्यमित्यर्थः। बाहीक इति। बहिष ईककि टिलोपे "किति चे"त्यादिवृद्धिः।
स्थाम्न इति। स्थामन्शब्दादकारप्रत्ययः। प्राग्दीव्यतीयेष्वर्तेषु वाच्य इत्यर्थः। अणोऽपवादः। अ()आत्थाम इति। अ()आस्येव स्थामा=स्थितिर्यस्येति विग्रहः। अ()आत्थाम्नोऽपत्यं, तत्र जात इत्यादिर्विग्रहः। प्रत्ययविधित्वेऽपि भाष्ये उदाहरणात्तदन्तविधिः। अ()आस्थामन्शब्दादकारप्रत्यये "नस्तद्धिते" इति टिलोपः। अणि तु आदि वृद्धिः स्यात्।
ननूदः परत्वाऽभावात्कथमिह सकारस्य थकार इत्यत आह--पृषोदकादित्वादिति। भवार्थे तु लुग्वाच्य इति। "अकारप्रत्ययस्ये"ति शेषः।
लोम्न इति। लोमन्शब्दाद्बहुषु अपत्येषु वाच्येषु अकारप्रत्ययो वक्तव्य इत्यर्थः। बाह्वादीञ इति। बाह्वादित्वप्रयुक्तस्य इञोऽपवाद इत्यर्थः। उडुलोमा इति। उडूनि नक्षत्राणीव लोमानि यस्य स उडुलोमा, तस्यापत्यमिति विग्रहः लोम्नोऽपत्ययोगाऽसंभवात्प्रत्ययविधित्वेऽपि तदन्तविधिः। अकारप्रत्यये सति "नस्यतद्धिते" इति टिलोपः। औडुलोमिरिति। उडुलोम्नोऽपत्यमिति विग्रहः। अत्रापत्यबहुत्वाऽभावादकारप्रत्ययो न। किंतु बाह्वादित्वादिञि टिलोप इति भावः।
सर्वत्र गोरिति। लोम्नोऽपत्येष्विति पूर्ववार्तिकादपत्यग्रहणानुवृत्तिनिवृत्त्यर्थं "सर्वत्र"ग्रहणम्। अपत्ये तदन्येषु च प्राग्दीव्यतीयेष्वर्थेषु गोशब्दादजादिप्रत्ययप्रसङ्गे सति यत्प्रत्ययो वाच्य इत्यर्थः। गव्यमिति। गवि भवं, गोरागतमित्यादि विग्रहः। अणपवादो यत्। गोरूप्यं गोमयमिति। "हेतुमनुष्येभ्योऽन्यतरस्या"मिति रूप्य इत्यर्थः। "मयड्वैतयो"रिति रूप्यमयटौ। हलादित्वान्नैतयोर्यत्प्रत्ययो बाधक इति भावः।