सूत्रम्
तेन दीव्यति खनति जयति जितम्॥ ४।४।२
काशिका-वृत्तिः
तेन दीव्यति खनति जयति जितम् ४।४।२
तेन इति तृतीयासमर्थाद् दीव्यति खनति जयति जितम् इत्येतेष्वर्थेषु ठक् प्रत्ययो भवति। अक्षैर् दीव्यति आक्षिकः। शालाकिकः। अभ्र्या खनति आभ्रिकः। कौद्दालिकः। अक्षैर् जयति आक्षिकः। अक्षैर् जितम् आक्षिकम्। शालाकिकम्। सर्वत्र करणे तृतीया समर्थविभक्तिः। देवदत्तेन जितम् इति प्रत्ययो न भवति, अनभिधानात्। अङ्गुल्या खनति इति च। प्रत्ययार्थे सङ्ख्याकालयोरविवक्षा। क्रियाप्रधानत्वे ऽपि चाख्यातस्य तद्धितः स्वभावात् साधनप्रधानः।
लघु-सिद्धान्त-कौमुदी
तेन दीव्यति खनति जयति जितम् ११२०, ४।४।२
अक्षैर्दीव्यति खनति जयति जितो वा आक्षिकः॥
न्यासः
तेन दीव्यति खनति जयति जितम्। , ४।४।२
"तेन" इति प्रत्येकमभिसम्बध्यते। "सर्वत्र करणे तृतीया" इति। दीव्यतीत्यादौ कत्र्तरि लकार इति तेनैव कर्त्तुरभिहितत्वात् कत्र्तरि तृतीया नोपपद्यते। तस्मात् करण एव तृतीया। अथ हेतौ तृतीया कस्मान्न भवति? अनभिधानात्। जितमित्यत्र कर्मणि निष्ठाविधानाद्यद्यपि कत्र्तर्यपि तृतीया सम्भवति, तथापि दीव्यतीत्यादिभिः साहचर्यात् करण एव तृतीया विज्ञायते। देवदत्तेन जितमित्यत्र कत्र्तरि तृतीया; तेन वाक्यमेव भवति; न प्रत्ययः।
इह सूत्रे दीव्यतीत्यादिनैकवचनान्तेनैकसंख्यस्य प्रत्ययार्थस्य वत्र्तमानेन च कालेन निर्देशः। ततश्चैकस्मिन्नेव प्रत्ययार्थे प्रत्यय स्यात्, न द्विबह्वोः। तथा वत्र्तमान एव काले, न भूतभविष्यतोरिति यश्चोदयेत्, तं इत्याह-- "प्रत्ययार्थे संख्याकालयोरविवक्षा" इति। अविवक्षातु तयोर्नान्तरीयकत्वात्। अवश्यं हि यया कयाचित् संख्यया येन केनचित् कालेन निर्देशः कत्र्तव्य इति। न तौ प्रधानम्, न च तयोर्विवक्षेति। यदि तर्हि संख्याकालयोरविवक्षेति साधनस्याप्यविवक्षा प्राप्नोति, एकप्रकरणत्वात्? नैष दोषः; यस्य हि विवक्षामन्तरेम द्वितीयस्य पदस्योच्चारणमनर्थकं भवति तन्नियोगतो विवक्षितव्यम्। दीव्यतीत्यादिष्वन्वर्थमात्रे विवक्ष्यमाणे द्वितीयस्य पदस्योच्चारणमनर्थकमापद्येतेति न युक्ता साधनस्याप्यविवक्षा।
इह दीव्यतीत्येवमादौ "क्रियाप्रधानमाख्यातम्" इति क्रियैव पदेन प्राधान्येनाख्यायते, कत्र्ता तु गुणीभूतः, तद्धितस्तु--आक्षिक इति प्राधान्येन कत्र्तारमेवात्र वक्ति, क्रिया तु गुणभावेन, एतच्चायुक्तम्; आख्यातेषूत्पन्नैः प्रत्ययैर्यथाऽसौ तिङन्तेनाभिधीयते, तथैव प्रत्ययान्तेनापि युक्तोऽभिधातुमिति यश्चोदयेत्, इत्याह-- "क्रियाप्रधानत्वेऽपि च" इत्यादि। अभिधानस्वभावश्चायम्, येन क्रियाप्राधान्यस्याप्यनुविधीयमानस्तद्धितः कर्त्तुप्रधानो भवति। तस्मात् कर्त्तृत्वभावोऽत्रापेक्षितव्यः। न हि स्वभावोऽपि न हि स्वाभावोऽपि पर्यनुयोगमर्हति॥
बाल-मनोरमा
तेन दीव्यति खनति जयति जितम् १५२९, ४।४।२
तेन दीव्यति। तेन दीव्यति, तेन खनति, तेन जयति, तेन जितमिति विग्रहेषु तृतीयान्ताट्ठगित्यर्थः। पारदारिक इति परदारान्गच्छतीत्यर्थः। अभ्रिः=कुद्दालः। "देवदत्तेन जित"मित्यत्र तु न ठक्, करणतृतीयान्तादेव तद्विधेः।
तत्त्व-बोधिनी
तेन दीव्यति खनति जयति जितम् ११९०, ४।४।२
तेन दीव्यति। इह कालपुरुषसङ्ख्या न विवक्षिताः, तेनाक्षैरदेवीत् देविष्यति वा आक्षिक इति भवति। एवमक्षैर्देविष्यसि देविष्यामि वा आक्षिकः, दीव्यन्ति दीव्यथ दीव्यामो वा आक्षिकाः। कारकं तु विवक्षितमेव, "जयति, जित"मिति कर्तृकर्मणोः पृथगुपादानात्। तेनाक्षैद्र्यूतः, अक्षैः खात इति कर्माद्यर्थे आक्षिक इति न भवति। अभ्र्येति। "अभ्रिः स्त्री काष्ठकुद्दालः"इत्यमरः।