सूत्रम्
अनाप्यकः॥ ७।२।११२
काशिका-वृत्तिः
अनाऽप्यकः ७।२।११२
इदमः अककारस्य इद्रूपस्य स्थाने अन इत्ययम् आदेशो भवति आपि विभक्तौ परतः। अनेन। अनयोः। अकः इति किम्? इमकेन। इमकयोः। आपि इति प्रत्याहारः तृतीयैकवचनात् प्रभृति सुपः पकारेण।
लघु-सिद्धान्त-कौमुदी
अनाप्यकः २७८, ७।२।११२
अककारस्येदम इदोऽनापि विभक्तौ। आबिति प्रत्याहारः। अनेन॥
न्यासः
अनाप्यकः। , ७।२।११२
"अनेन" इति। त्यदाद्यत्वे पररूपत्वे च कृत इद्रूपस्यानादेशः, "टाङसिङसामिनात्स्याः"
७।१।१२ इतीनादेशः, "आद्गुणः"
६।१।८४। "अनयोः" इति। "ओसि च"
७।३।१०४ इत्येत्वम्(), अनादेशः, सुलोपः।
"पकारेण" इति।
अथ कपः पकारेण कस्मान्न भवति? प्रयोजनाभावात्()। ननु चेहेत्यत्र प्राग्दिशीयायां विभक्तौ "हलि लोपः" (७।२।
११३) यथा स्यादितीदमस्ति प्रयोजनम्()? "इदम इश्()"
५।३।३ इतीशात्र बाधकेन भवितव्यम्()। अत्र च "अमेहक्वतिसित्रेभ्यः" (कारिका ४।२।१०४) इत्यत्र इहेत्यकृतेद्रूपलोपस्य हकारान्तस्येदमो तिर्देशो लिङ्गम्()॥
बाल-मनोरमा
अनाप्यकः , ७।२।११२
टादावचि विशेषमाह-अनाप्यकः। अन्,-आपि,-अक इति च्छेदः। न विद्यते क् यस्य सः अक्, तस्य-अकः। ककाररहितस्येत्यर्थः। "इदमो मः" इत्यत "इदम" इति, इदोऽय्पुंसी"त्यत "इद" इति चानुवर्तते। "अष्टन आ विभक्तौ इत्यतो विभक्ताविति। तदाह--अककारस्येत्यादिना। आपीत्यनेन टाप्डाप्चापां ग्रहणं नेत्याह-आबित्यादिना। "टा" इत्याकारमारभ्येत्यर्थः। विभक्तावित्यनुवृत्तिसामथ्र्यान्न टाबादिग्रहणमिति भावः। अनेनेति। इदम् आ इति स्थिते त्यदाद्यत्वं पररूपत्वम्। इदोऽनादेशः। अन-आ इति स्थिते इनादेशे गुण इति भावः।
तत्त्व-बोधिनी
अनाप्यकः ३०६, ७।२।११२
अनाप्यकः। "आ"विति प्रत्याहारो न तु टाप्, विभक्ताविति विशेषणादतो व्याचष्टे--टा इत्यारभ्य सुपः पकारेणोति।