अकारान्तादङ्गादुत्तरेषाम् टाङसिङसाम् इन आत् स्य इत्येते आदेशाः भवन्ति यथासङ्ख्यम्। टा इत्येतस्य इनादेशो भवति। वृक्षेण। प्लक्षेण। ङसि इत्येतस्य आत्। वृक्षात्। प्लक्षात्। ङसित्येतस्य स्यादेशो भवति। वृक्षस्य। प्लक्षस्य। अतः इति किम्? सख्या। पत्या। अतिजरसिन, अतिजरसातिति केचिदिच्छन्ति। यथा तु भाष्ये तथा न एतदिष्यते इति लक्ष्यते।
"अतिजरसिना" इत्यादि।
पूर्ववत्? समासे कृते ह्यस्वत्वे च जरसादेशः। "केचित्()" इति। सूत्रकारमतानुसारिणः।
यदि ह्रतिजरसिनेत्येतत्? सूत्रकारस्य साधुत्वेनाभिमतं न स्यात्(), टेत्येतस्य नादेशमेव कुर्यात्()। तत्राप्येत्वे कृते वृक्षेणेत्यादि सिध्यति।
कथमेतत्वमिति चेत्()? एवमेत्त्वविधौ योगविभागः करिष्यते। इदमस्ति--"बहुवचने झल्येत्()"
७।३।१०३, ततः "ओसि च"
७।३।१०४, ततः "आङि चापः"
७।३।१०५ इति; तत्राङीति योगविभागः कत्र्तव्यः--आङि परतोऽत एत्वं भवति--वृक्षेण, प्लक्षेण; ततः "आपः", "सम्बुद्धौ च"
७।३।१०६ इति। ननु च नादेशे सतीदम इद्रूपस्य हलि लोपः प्रसज्येत,
ततश्चानेनेति न सिध्यति? नैष दोषः; "हलि लोपः"
७।२।११३ इत्यत्र "जराया जरसन्यतरस्याम्()"
७।२।१०१ इत्यतोऽन्यतरस्यांग्रहणमनुवत्र्तते, सा च व्यवस्तितविभाषा विज्ञायते तेन नादेशे कृते सतीद्रूपस्य लोपो न भवति। तदेवं नादेशेनैव वृक्षेणेत्यादि। सिध्यति। ततः स एव कत्र्तव्यः, नेनादेशः; कृतश्चासौ, अतोऽवगम्यते--नूनं सूतद्रकारस्याति जरसिनेत्येतत्साधुत्वेनाभिमतम्(), यस्य सिद्ध्यर्थमिनादेशं कृतवानितिति।
तथा यद्यतिजरसादित्यस्य साधुत्वमभीष्टं न स्यात्? ङसेरद्भावं विदध्यात्()। तत्रापि अकः सवर्णे दीर्घत्वेन
६।१।९७ वृक्षादित्येवमादि सिद्ध्यत्येव। ननु चाकः सवर्णावपवादः "आतो गुणे"
६।१।९४ पररूपत्वं प्राप्नोति,
तत्? कथं सिद्ध्यति? नैतदस्ति; अकारोच्चारणसामथ्र्यान्न भविष्यति पररूपम्(), अन्यथा तकारमेव विदध्यात्()। अत्र हि "आदेः परस्य"
१।१।५३ इत्यकारस्य तकारे विहिते संयोगान्तलोपे वृक्षादित्येवमादि सिध्यत्येव। अत्र हि "आदेः परस्य"
१।१।५३ इत्यकारस्य तकारे विहिते संयोगान्तलोपे वृक्षादित्येवमादि सिध्यत्येव।
तस्मादकारोच्चरणसामथ्र्यात्? पररूपत्वं न भविष्यतीत्यद्भावो विधेयः,
किमाद्भावेनेति? विहितश्चाद्भावः, ततोऽवसीयते--नूनमतिजरसादित्यस्य साधुत्वं सूत्रकारस्याभिमतं यत्सिद्ध्यर्थमाद्भावं विहितवानिति। एवं सूत्रकारस्य मतमनुसरन्तः केचिदतिजरसिना, अतिजरसादित्यस्य साधुत्वमिच्छन्ति। "यथा तु" इत्यादि। भाष्ये हि--"अथ किमर्थमिनादेश उच्यते, न नादेश एवोच्येत" इत्येवं ग्रन्थसन्दर्भेणेनादेशं प्रत्यख्याय नादेश एव व्यवस्थापितः। "अथ किमर्थमादिप्युच्यते, न अदेवोच्येत" इत्येवमादिना ग्रन्थसन्दर्भेण आदादेशं प्रत्याख्याय अदादेश एव व्यवस्थापितः। यदि चातिजरसिना, अतिजरसादित्यस्य साधुत्वमिष्टं स्यादिनादेशमाद्भावं च भाष्यकृन्न प्रत्याचक्षीत। न हि प्रयोजने सति प्रत्याख्यानं युक्तम्(), कृतञ्च तयोः प्रत्याख्यानम्(), ततोऽवगम्यते--"नैतदिव्यते" इति॥