हलादौ विभक्तौ परतः इदमो ऽककारस्य इद्रूपस्य लोपो भवति। आभ्याम्। एभिः। एभ्यः। एषाम्। एषु। नानर्थके ऽलोन्त्यविधिः इति सर्वस्य अयम् इद्रूपस्य लोपः। अथ वा न अयम् इल्लोपः। अनाप्यकः
७।२।११२ इति अङ्ग्रहणम् अनुवर्तते।
पूर्वेणानादेशे प्राप्ते हलादाविद्रूपस्य लोपो विधीयते। "आभ्याम्()" इति। त्यदद्यत्वम्; अतो गुणे
६।१।९४ पररूपत्वम्(), "सुपि ;ट
७।३।१०२ इति दीर्घत्वञ्च।
अथालोऽन्त्यपरिभाषया(१।१।
५२)न्त्यस्यायं लोपः कस्मान्न भवति? इत्याह--"नानर्थके" इत्यादि। अभ्युपेत्यानर्थकेऽलोऽन्त्यविधिं परिहारान्तरमाह--"अथ वा" इत्यादि। न चाल्ग्रहणं कत्र्तव्यम्(),
यतस्तदनुवत्र्तते? इत्यत आह--"अनाप्यकः" इत्यादि। यद्यपि तत्र प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः, तथापि हलीति सप्तमी अन्निति षष्ठीत्वं प्रकल्पयिष्यति; "तस्मिन्निति निर्द्दिष्टे पूर्वस्य"
१।१।६५ इति वचनात्()। एवं परिहारो भाष्यकारमतेन बोद्धव्यः; अस्याः परिभाषया अनङ्गीकरणात्()। अत्र दर्शने तु त्रयाणामकराणां पररूपमेकादेशं कृत्वा दीर्घत्वादि विधेयम्()॥
भ्यामादौ त्यदाद्यत्वे पररूपे च कृते "अनाप्यकः" इति प्राप्ते-हलि लोपः। "आप्यक" इति पूर्व सूत्रादनुवर्तते। "इदमो मः" इत्यत "इदम" इति "इदोऽय् पुंसी"त्यत "इद" इति "अष्टनः" इत्यतो विभक्ताविति चानुवर्तते। हलीति विभक्तिविशेषणं। तदादिविधिः। तदाह-अककारस्येत्यादिना। अलोऽन्त्यपरिभाषया इदो दकारस्य लोपमाशङ्क्याह--नानर्थक इति। परिभाषेयमुपधासंज्ञासूत्रे भाष्ये स्थिता। इदम्शब्दे इदित्यस्यानर्थकत्वात्तदन्तस्येति न लभ्यते। ततश्च इदित्यस्य कृत्स्नस्यैव लोप इति भावः। अनभ्यासविकार इत्यनुक्तौ विभर्तीत्यादौ "मृञामित्", अर्तिपिपत्र्योश्चे"तीत्त्वं कृत्स्नस्याभ्यासस्य स्यात्। द्वित्वे सति समुदायस्यैवार्थवत्त्वात्। "हलि लोप" इत्यत्र लोपग्रहणपनीय "हल्य" शित्येव सूत्रयितुमुचितम्, शित्त्वादिदः कृत्स्नस्याकारे पररूपे "सुपि चे"ति दीर्ङे आभ्यामित्यादिसिद्धेः।
नानर्थकेऽलोन्त्यविधिरिति। नन्वेवं "बिभर्ति""पिपर्ती"त्यादौ "भृञामित्"र्तिपिपत्र्योश्चे"तीत्त्वं सर्वस्याऽभ्यासस्य स्यात्, द्वित्वाऽभावे केवलस्याऽर्थवत्त्वेऽपि द्वित्वे सति समुदायस्यैवाऽर्थवत्त्वादित्याशङ्कायामाह--अनभ्यासविकार इति।