छन्दसि विषये बहुलं रुडागमो भवति। देवा अदुह्र। गन्धर्वा अप्सरसो अदुह्र। दुहेर्लङि झकारस्य अदादेशे कृते रुट्। लोपस्य आत्मनेपदेषु
७।२।४१ इति तकारलोपः। न च भवति, अदुहत। बहुलवचनादन्यत्र अपि भवति। अदृश्रमस्य केतवः। ऋदुशो ऽडि गुणः
७।४।१६ इत्येतदपि बहुलवचनादेव अत्र न भवति।