सूत्रम्
अतो भिस ऐस्॥ ७।१।९
काशिका-वृत्तिः
अतो भिस ऐस् ७।१।९
अकारान्तादङ्गादुत्तरस्य भिसः ऐसित्ययम् आदेशो भवति। वृक्षैः। प्लक्षैः। अतिजरसैः। जरामतिक्रान्तैः इति विगृह्य समासे कृते ह्रस्वत्वे च भिस ऐसादेशो भवति। एकदेशविकृतमनन्यवद् भवति इति जरशब्दस्य जरसादेशः। सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति परिभाषा इयम् अनित्या, कष्टाय क्रमणे
३।१।१४ इति निर्देशात्।
अतः इति किम्? अग्निभिः। वायुभिः।
तपरकरणं किम्? खट्वाभिः। मालाभिः। एत्वम् भिसि परत्वाच् चेदत ऐस् क्व भविष्यति। कृते ऽप्येत्वे भौतपूर्व्यादैस् तु नित्यस् तथा सति। अतः इत्यधिकारो जसः शी इति यावत्।
लघु-सिद्धान्त-कौमुदी
अतो भिस ऐस् १४२, ७।१।९
अनेकाल्शित्सर्वस्य। रामैर्H॥
न्यासः
अतो भिस ऐस्?। , ७।१।९
"समासे कृते" इत्यादि। "कुगतिप्रादयः"
२।२।१८ इति क्रान्ताद्यर्थेऽतिशब्दस्य। "ह्यस्वत्वे च" इति। "गोस्त्रियोरुपसर्जनस्य"
१।२।४८ इति ह्यस्वः। ननु यदि ह्यस्वः क्रियते, तदा जराशब्दस्योच्यमानो जरसादेशो जरशब्दस्य न प्राप्नोतीति चोद्यमपाकर्तुमाह--"एकदेशविकृतम्()" इत्यादि।
ननु चैकदेशविकृतस्यानन्यत्वेऽपि नैवात्र जरसादेशेन भवितव्यम्(), "सन्निपातलश्रणो विधिरनिमित्तं तद्विधातस्य" (व्या।प।
१२) इति परिभाषया जरशब्दसन्निपातलक्षणो ह्रैस्? विधीयते, स कथं तस्य विधातस्य तद्विधातस्य" (व्या।प।
१२) इति परिभाषया जरशब्दसन्निपातलक्षणो ह्रैस्? विधीयते,
स कथं तस्य विघातस्य निमित्तं स्यात्? इत्याह--"सन्निपात" इत्यादि। अनित्यत्वं पुनरस्याः "कष्टाय क्रमणे"
३।१।१४ इत्यतः कष्टायेति निर्देशाद्वेवितव्यम्()। यदि ह्रेषा नित्या स्यात्(), ततोऽकारान्तलक्षणो विधिरकारान्तताविधातस्य निमित्तं न स्यादिति "सुपि च"
७।३।१०२ इति दीर्घत्वं न स्यात्(), ततश्च "कष्टाय"
३।१।१४ इति निर्देशो नोपपद्यत इति।
अथ किमर्थमैस्? विधीयते, न एसेव विधीयताम्(), तत्रापि "वृद्धिरेचि"
६।१।८५ इति वृद्धौ कृतायाम्()--वृक्षैः,
प्लक्षैरित्यादि सिध्यति? कः पुनरेवं सतदि गुणो लभ्यते? न ह्रैस्येसि वा क्रियमाणो कश्चिल्लाधवकृतो विशेषः, प्रक्रियागौरवमेव तु स्यात्();
एवं विधाय लक्षणान्तरेण वृद्धेर्विधानात्()? अजितरसैरिति तु न सिद्ध्यति; वृद्ध्यभावात्()। वृद्ध्यभावसत्वकारान्तताभावदिति यत्किञ्चिदेतत्()।
इह वृक्षैरित्यत्र भिसि परभूते "अतो भिस ऐस्()" इत्यैस्भावः प्राप्नोति, "बहुवचने झल्येत्()"
७।३।१०३ इत्येस्वञ्च,
उभयञ्चैतत्? सावकाशम्(), तत्रैस्भावस्य सावकाशत्वम्()--कृतेऽप्येत्त्वे भूतपूर्वमकारान्तत्वामाश्रित्य, एवत्त्वस्यावकाशः--भ्यसादिः" परत्वादेत्त्वेनात्र भवितव्यमिति यो मन्येत, तं प्रत्याह--"एत्त्वं भिसि परत्वात्()" इत्यादि। भिसि परत्वादेत्त्वञ्चेन्मन्यसे,
अत ऐस्? क्व भविष्यति? अकारान्तात्? परस्य भिस ऐस्? विधीयते,
तत्र यदि परत्वादेत्त्वं भवेत्? क्वेदानीमैस् भविष्यति? न क्वचित्(); अकारान्ततायाः सर्वत्रैत्त्वेन विहितत्वादिति भावः। ऐस्भावस्य विषयं दर्शयितुमाह--"कृतेऽप्येत्त्वे" इत्यदि।
कथं पुनः कृत एत्त्व ऐस्? भवति, यावताऽकारान्तादङ्गादुत्तर्स्य भिस ऐसिकति,
न च परत्वादेत्त्वे कृतेऽकारान्तादुत्त्रो भिस्? भवति,
तत्र वचनप्रमाण्यात्? कृतेऽप्येत्त्वे भूतपूर्वमकारान्तत्वमाश्रित्यैस्मभविष्यति। "ऐस्तु नित्यस्तथा सति" इति। एवं कृतेऽप्येत्त्व ऐस्भावेन भवितव्यमकृतेऽपीति कृताकृतप्रसङ्गित्वात्(); ऐस्तु नित्यः, एत्त्वं त्वनित्यम्(); न हि तदैस्भावे कृते प्राप्नोति; झलो निमित्तस्याभावात्()। नित्यानित्ययोश्च तुल्यबलत्वाद्विप्रतिषेधो नोपपद्यते। ततश्च परमप्येत्त्वमपास्य बलवानैस्भविध्यतीति भावः॥
न्यासः
तितुत्रतथसिसुसरकसेषु च। , ७।१।९
अवशाद्यर्थोऽयमारम्भः। "तन्तिः" इति। "ननु विस्तारे" (धा।पा।१४६३) "क्तिच्क्तौ च संज्ञायाम्()"
३।३।१७४ इति क्तिच्()। "अनुदात्तोपदेशवनतिततोति"
६।४।३७ इत्यादिनाऽनुनासिकलोपः प्राप्नोति, "अनुनासिकस्य क्विझलोः क्ङिति"
६।४।१५ इति दीर्घश्च, तदुभयमपि "न क्तिचि दीर्घश्च"
६।४।३९ इति प्रतिषेधान्न भवति।
"दोप्तिः" इति। "क्तिन्नाबदिभ्यश्च" (वा।३०७) इति क्तिन्()। रोदिति स्वपितीत्यत्र प्रतिषेधो न भवति; कृतीत्यनुवृत्तेः।
"सक्तुः" इति। "सच समवाये" ["षच"--धा।पा।] (धा।पा।९९७)।
"पत्रम्()" इति। "पत्लृ गतौ" (धा।पा।८४५)। "तनु विस्तारे" (धा।पा।१४८६)।
"हस्तः" इति। "हस हसने" (धा।पा।७२१)["हसे"--धा।पा।] "लोतः" इति।
"लूञ्? छदने" (धा।पा।१४८३)।
"औणादिकस्य" इत्यादि। "ऊर्णेतेर्विभाषा"
७।२।६ इत्यतो विभाषाग्रहणमनुवत्र्तते, सा च व्यवस्थितविभाषा। तेनौणादिक एव तशब्दे प्रतिषेधेन भवितव्यम्(), नान्यत्र।
यत्र प्रतिषेधेन भवितव्यम्? तस्यैव ग्रहणं युक्तमित्यौणादिकतशब्दस्य ह्पबणमिष्यते, न तु क्तस्य। तेन हसितमित्यत्रेडागमो भवत्येव।
"कुष्ठम्()" इति। "कुव निष्कषे" (धा।पा।१५१८)। "काष्ठम्()" इति। "काशृ दीप्तौ" (धा।पा।६४७)। शकारस्य व्रश्चादिसूत्रेण
८।२।३६ षत्वम्(), "ष्टुना ष्टुः"
८।४।४० इति ष्टुत्वम्()।
"कुक्षिः" इति। कुषेः "षढोः कः सि"
८।२।४१ इति कत्वम्(), "इण्कोः"
८।३।५७ इति षत्वम्()।
"इक्षुः" इति। "इषु इच्छायाम्()" (धा।पा।१३५१)["इष"--धा।पा।] पूर्ववत्कत्वषत्वे।
"अक्षरम्()" इति। "अशू व्वाप्तौ" (धा।पा।१२६४) [व्याप्तौ संघाते च--धा।पा।] व्रश्चादिसूत्रेण
८।२।३६ षत्वम्(), पूर्ववत्कत्वम्()। "शल्कम्()" इति "शल गतौ" (धा।पा।८४३)। "वत्सः" इति। "बद व्यक्तायां वाचि" (धा।पा।१००९), चत्र्वम्()--तकारः।
"तितुत्रथेष्वग्रहादीनां वक्तव्यम्()" इति। "तितुत्रथ"
७।२।९ इत्यादिसूत्रमुपलक्षयति। तितुत्रतथेत्यैदौ ग्रहादीनां प्रतिषेधो न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--इहापि "विभाषा"
७।२।६ इत्यनुवत्र्तते, स च व्यवसथितदिभाषा, तेन ग्रहादीनां प्रतिषेधो न भवति। "प्रहादयो ग्रहप्रकाराः" इति। अनेनादिशपब्दस्य प्रकारार्थतामाचष्टे।
के पुनग्र्रहप्रकाराः? इत्याह--"येषाम्()" इत्यादि। "निगृहीतिः" इति। "स्त्रियां क्तिन्()"
३।३।९४, "ग्रहोऽलिटि दीर्घः"
७।२।३७ इति दीर्घः, ग्रह्रादीना सूत्रेण
६।१।१६ सम्प्रसरणम्()। "उपस्निहितिः" इति। "ष्णिह प्रीतौ" (धा।पा।१२००)। "निकुचितिः" इति। "कुच सङ्कोचे" ["सङ्कोचने"--धा।पा।] (धा।पा।१३६८)।
अत्र त्वौणादिकानां ग्रहणं शक्यमकर्त्तुम्(); यथैव हि "उणादयो बहुलम्" (३।३।
१) इति बहुलवचनात्? "ञमन्ताङ्ङः" (पं।उ।१।१०४) इत्येवमादाविण्व भवति,
तथा तेष्वति न भवितव्यम्()? प्रपञ्चापर्थ तेषां ग्रहणं वेदितव्यम्()॥
बाल-मनोरमा
अतो भिस ऐस् २०१, ७।१।९
अतो भिस ऐस्। "अत" इति पञ्चमी। "अङ्गस्ये"त्यधिकृतंपञ्चम्या विपरिणम्यते। "अत" इति च तस्य विशेषणम्। विशेषणत्वाच्च त्तदन्तविधिः। तदाह--अकारान्तादिति। रुत्वविसर्गौ सिद्धवत्कृत्याह--रामैरिति। यद्यपि एसि विहितेऽपि वृद्धौ रामैरित्यादि सिद्धम्। नच अतो गुण इति पररूपं शङ्क्यम्, एकारोच्चारणसामथ्र्यादेवतदसम्भवात्। अन्यथा इसमेव विदध्यात्। तथापि एदैतोर्द्विमात्रत्वाऽविसेषात्प्रक्रियालाघवाच्च ऐसो विधिः। अलोऽन्त्यस्येत्यन्तादेशमाशङ्क्याह-अनेकाल्त्वादिति। अथ चतुर्थीविभक्तिः। तत्र ङे इति ङकारस्य लशक्केतीत्संज्ञायां लोपः। तदुच्चारणं तु घेर्ङितीत्याद्यर्थम्। राम-ए इति स्थिते।
तत्त्व-बोधिनी
अतो भिस ऐस् १६९, ७।१।९
अतो भिस ऐस्। ननु "ए"सित्येवास्तु। न च "अतो गुणे" इति पररूपापत्तिः। एकारोच्चारणवैयथ्र्यापत्तेः। अन्यता इसमेव विदध्यादिति चेत्सत्यम्। एदैतोर्द्विमात्रत्वाऽविशेषेण गौरवाऽभावात्। "बहुलं छन्दसि" इत्यत्र "अनतोऽपि भवति नद्यै"रिति काशिकोदाह्मतप्रयोगस्य ऐस्करणं विना अनिर्वाहाच्च। केचिदैस्करणं निर्जरसैरित्यैकारश्रवणार्थमिति व्याचख्युः, तच्चिन्त्यम्। संनिपातपरिभाषया जरसादेशाऽप्रवृत्तेर्निर्जरैरित्येव भाष्ये सिद्धान्तितत्वात्।