ऋवर्णान्तानां दृशेश्च अङि परतो गुणो भवति। शकलाङ्गुष्ठको ऽकरत्। अहं तेभ्यो ऽकरं नमः। असरत्। आरत्। जरा। दृशेः अदर्शत्, अदर्शताम्, अदर्शन्।
"क्ङिति च"
१।१।५ इति प्रतिषेधे प्राप्तेऽयं गुणो विधीयते। "अकरत्()" इति। कृञो लुड्(), च्लिः, "तिप्(), "कृमृदृरुहिभ्यश्छन्दसि"
३।१।५९ इति च्लेरङ। "असरत्()" इति। "सृ गतौ" (धा।पा।९३५)। "आरत्()" इति। "ऋ गतिप्रापणयोः" (धा।पा।९३६), "सर्त्तिशास्त्यर्त्तिभ्यश्च"
३।१।५६ इति च्लेरङ्(), अत्र्तेरजादित्वादाटि कृते "आटश्च"
६।१।८७ इति वृद्धिः। "अदर्शत्()" इत "इरितो वा"
३।१।५७ इत्यङ्()। अथ गुणग्रहणं किमर्थम्()।
अकार एव नोच्येत? नैवं शक्यम्(); अकार इत्युच्यमाने दुशेरन्त्यस्य स्यात्()। गुणग्रहणे तु सति संज्ञाविधाने नियम इतीक एव स्थाने भवति॥