अककारयोरिदमदसोर्भिस ऐस् न। एभिः। अस्मै। एभ्यः। अस्मात्। अस्य। अनयोः। एषाम्। अस्मिन्। अनयोः। एषु॥
अविद्यमानः ककारो ययोस्तवकौ। "एभिः" इति। इदमस्त्यदाद्यत्वम्(), "बहुवचने झल्येत्()"
७।३।१०३ इत्येत्त्वम्(), "हलि लोपः"
७।२।११३ इतीद्रूपस्य लोपः। "अमीभिः" इति। अदस एत्त्वे कृते "एत ईदवहुवचने"
८।२।८१ इतीत्त्वम्(), दस्य च मत्वम्()।
"इमकैः" इति। "अव्ययसर्वनाम्नामकच्प्रक्टोः"
५।३।७१ इत्यकच्(), "दश्च"
७।२।१०९ इति दकारस्य मत्वम्()। "अमुकैः इति। "अदसोऽसोर्दादु दो मः"
८।२।८० इति मत्वोत्वे।
अथ "नेदमदसोः" इत्येवं कस्मान्नोक्तम्(), किमकोरत्यनेन,
अकोरित्यनुच्यमाने सककारयोरपि अतिषेधः स्यादिति चेत्()? नैतदस्ति;
इदमदसोर्हि प्रतिषेध उच्यमानः कः प्रसह्गो या सककारयोः स्यात्()? नैव प्राप्नोति शब्दान्तरत्वादित्याह--"अकोरित्येत्()" इत्यादि। ज्ञापकस्य प्रयोजनम्()--अकज्वतां सर्वनामसंज्ञा सर्वादीनाम्(), स्वरादीनाञ्चाव्ययसंज्ञा।
अथ "इदमदसोः कात्()" इति कस्मान्नोक्तम्(),
तत्र पूवणैव सिद्धे नियमार्थ भविष्यति--इदमदसोः सम्बन्धो यो भिस्? तस्य कादेव परस्यैस्? भवति, इत्येवं विज्ञायमाने नियमे सर्वमभीष्टं नियमे सर्वमभीष्टं सिध्यत्येव,
लघु च सूत्रं भविष्यति? सत्यमेतत्();
किन्त्वस्मिन्? सूत्रविन्यासे "तन्मध्यपतितस्तद्ग्रहणेन गृह्रते" (व्या।प।२१) इत्येषा न ज्ञापिता स्यात्()। विपरीतनियमोऽपि भन्दधीभिराशङ्क्येत--इदमदसोरेव कादिति।
तत्रायं नियमार्थः स्यात्()--इदमदसोरेव यः ककारस्तस्मात्? परस्य भिस ऐस्भवतीति। ततो वि()आकैः, सर्वकैरित्यत्र न स्यात्(); नियमेन व्यावर्त्तितत्वात्()। इह च स्यादेव--एभिः, अमीभिरिति। नियमेनाव्यावर्त्तितत्वात्()। तस्माद्यथान्यासमेवास्तु॥
नेदमदसोः। भाष्ये तु "इदमदसोः कात्"। नियमार्थमिदम्। "इदमदसोः कादेव भिस ऐस् नान्यतः"इति स्थितम्। नव्यास्तु--"इदमदसो का"दिति सूत्रिते तु "काद्भिस ऐस् इदमसोरेवे"ति विपरितनियमोऽपि संभाव्येत। तथाच "पाचकै"रित्यादि न सिध्येत्। किं तु "इदमदसोः काद्भिस ऐस्"तः"इत्येव सूत्रद्वयं सुवचमित्याहुः। स्मायादेशात्परत्वादनादेशः स्यादित्याशङ्कायामाह--नित्यत्वान्हेः स्मै इति।