उक्तपुंस्कादनूङ् ऊङोऽभावोऽस्यामिति बहुव्रीहिः। निपातनात्पञ्चम्या अलुक् षष्ठ्याश्च लुक्। तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं तस्मात्पर ऊङोऽभावो यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्येव रूपं स्यात् समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे न तु पूरण्यां प्रियादौ च परतः। गोस्त्रियोरिति ह्रस्वः। चित्रगुः। रूपवद्भार्यः। अनूङ् किम्? वामोरूभार्यः॥ पूरण्यां तु -।
अत्र त्रयः पक्षाः सम्भाव्यन्ते--"स्त्रियाः" इति स्त्रीशब्देन प्रत्ययग्रहणं वा, अर्थग्रहणं वा, शब्दग्रहणं वेति। तत्र यदि "स्त्रियाः" इति। स्त्रीप्रतययग्रहणं स्वर्यते, तदा स्वरितेनाधिकारावगतिः
१।३।११ भवतीति स्त्र्यधिकारविहिताः प्रत्यया गृह्रन्ते, यथा--"गोस्त्रियोरुपसर्जनस्य"
१।२।४८ इत्यत्र। अथ तु "स्त्री" इत्यनेन स्त्रीत्वविशिष्टं द्रव्यमभिधीयते, तदार्थग्रहणम्()। यदि तु स्त्र्यर्थवाची शब्दः स्त्रीत्यनेनोच्यते, तदा शब्दग्रहणम्()। तत्राद्यपक्षेऽयं सूत्रार्थः--भाषितपुंस्कात्परः स्त्रीप्रत्ययोऽनूङुत्तरपदे पुंपद्भवति, निवत्र्तत इति यावत्(), तदा "स्त्रियाः" इति प्रथमार्थे षष्ठा।
कथं पुनः पुंवदित्यनेन स्त्रीपरतययस्य निवृत्तिः शक्यते विज्ञातुम्()? भवतीति वाक्यशेषाध्याहारात्()।
अत्र च पक्षे पट्वी भार्याऽस्येति पटुभार्यं इत्यत्र स्त्रीप्रत्ययनिवृत्तेरुत्तरपदनिमित्तायाः पूर्वस्मिन्? यणादेशे विधातव्ये सति "अचः परस्मिन्? पूर्वविधौ"
१।१।५६ इति स्थानिवद्भावे सति यणादेशः स्यात्()। इह च--गाग्र्यो वृन्दारिका गर्गवृन्दारिका इत्यत्र "तद्राजस्य बहुषु तेनैवास्त्रियाम्()"
२।४।६२ इत्यनुवर्तमाने "यञञोश्च"
२।४।६४ इति यञो लुग्न प्राप्नोति। पुंवद्भावेन हि स्त्रोप्रत्ययस्य निवृत्तिः क्रियते, न त्वर्थस्य स्त्रीत्वस्य;
ततश्चार्थस्यानिवर्तितत्वात्? केन पुनर्यञ्न श्रूयेत--इत्येवमादयः प्रत्ययपक्षे दोषा भाष्ये विस्तरेणोक्ताः। इह चातिग्रन्थविस्तरभयान्नोच्यन्ते।
अर्थपक्षे तूत्तरपदे परतो भाषितपुंस्कस्यानूङ्प्रत्ययान्तस्य स्त्रीशब्दस्य योर्थस्तस्य पुमर्थोतिदिश्यते। भाषितपुंस्कादिति पञ्चमी षष्ठ()र्थे--स्त्र्यर्थः पुंवद्भवतीति। पुमर्थे चातिदिष्टे तद्वचनः शब्दः प्रवर्तते। अत्र पक्षे "खित्यनव्ययस्य"
६।३।६५ इति ह्यस्वत्वस्यास्य च पुंवद्भावस्य विप्रतिषेधो न प्राप्नोति; भिन्नविषयत्वात्()। तथा हि--शब्दस्य ह्यस्वत्वम्(), अर्थस्य पुंवद्भावः; ततश्च कालिम्मन्येत्यत्र "विप्रतिषेधे परं कार्यम्()"
१।४।२ इति ह्यस्वत्वं न प्राप्नोति, इष्यते च विप्रतिषेधः। तथा हि--पुंवद्भावस्य विप्रतिषेधो न प्राप्नोति; भिन्नविषयत्वात्()। तथा हि--शब्दस्य ह्यस्वत्वम्(), अर्थस्य पुंवद्भावः; ततश्च कालिम्मन्येत्यत्र "विप्रतिषेधे परं कार्यम्()"
१।४।२ इति ह्यस्वत्वं न प्राप्नोति, इष्यते च विप्रतिषेधः। तथा हि--पुंवद्भावस्यावकाशो यत्र खिदन्तमुत्तरपदं नास्ति--दर्शनीयभायं इति, ह्यस्वस्यावकाशो यत्र पुंवद्भावो नास्ति--कालिम्मन्यः पुमानिति; कालिम्मन्या स्त्रीत्यत्रोभयं प्राप्नोति,
तत्र परत्वात्? ह्यस्वत्वं भवति।
तदेवमाद्ययोः पक्षयोर्दोषवत्तां मन्यमानस्तृतीयपक्षमाश्रित्याह--"भाषितः पुमान्? येन" इत्यादि। यो ह्रविशेषेण क्वचिद्भाषितपुंस्कः शब्दः स इहाश्रीयेत, तदा द्रोणीभार्य इत्यत्रापि पुंवद्भावः स्यादिति मनसि कृत्वाऽऽह--"समानायमाकृतौ" इत्यादि।
"एकस्मिन्? प्रवृत्तिनिमित्ते" इति। अनेन समानायामाकृतावित्यस्यार्थं विस्पष्टीकरोति। आक्रियते=गृह्रते,
परिच्छिद्यते येनार्थस्तत्? शब्दस्य प्रवृत्तिनिमित्तं जात्यादिकमिहाकृतिशब्देनोच्यते।
"भाषितपुंस्कात्()" इत्येतावत्युक्ते "समानायामाकृतौ" इत्येष विशेषो न शक्यो लब्धुमित्यभिप्रायेणाह--"तदेतदेवम्()" इत्यादि। तदिति वाक्योपन्यासे। एतस्य वचनस्यार्थरूपमेवम्प्रकारम्()।
कथं भवति? नैवं कथंचिदित्यर्थः।
यदि भाषितपुस्कशब्दस्य बहुव्रिहेः शब्दोऽन्यपदार्थत्वेनाश्रीयेत--भाषितः पुमान्? येन शब्देन स भाषितपुंस्कः शब्द इति, तदा समानायामाकृतावित्येष विशेषो न लभ्यते, सर्व एव हि शब्दः क्वचदाकृतौ पुमांसं भाषित्वाऽऽकृत्यन्तरे स्त्रियं भाषत इति कृत्वा।
अर्थे त्वन्यपदार्थत्वेनाश्रीयमाणे लभ्यत एव इत्येष विशेष इत्यालोच्याह--"भाषितः पुमान्? यस्मिन्नर्थे" इत्यादि।
शब्दस्य यत्? प्रवृत्तिनिमित्तं जात्यादिकं तदन्यपदार्थः।
केन पुनः शब्देन तत्र भाषितः पुमान्()? प्रत्यसत्तेर्यत्? तस्य प्रवृत्तनिमित्तं तेनैवेति विज्ञायते; अन्यथा हि भाषितपुंस्कग्रहमनर्थकं स्यात्(), व्यवच्छेद्याभावात्()। सर्वत्रैवाभिधेये।
र्थे येन केनचित्? शब्देन पुमान्? भाष्यते। अन्ततोऽर्थशब्देनापि तस्यार्थस्य भाषितपुंस्कस्य यः प्रातपदिकः शब्द सोऽप्यभिध्यधर्मस्याभिधान उपचरद्भाषितपुंस्क इत्युच्यते।
स पुनः प्रत्यासत्तेर्यस्य योऽर्थः प्रवृत्तिनिमित्तं ततर येन पुमान्? भाषत इति स एव वेदितव्यः।
यश्च भाषितपुंस्कस्य प्रवृत्तिनिमित्तस्य वाचकः स नियोगत एकस्मिन्? प्रवृत्तिनिमित्ते पुमांसं भाषित्वा स्त्रियं भाषते। यथा मूलोदाहरणेषु--दर्शनीयादयः शब्दा इति,
समाथ्र्याद्येन शब्देन समानायामाकृतौ पुमान्? भाषित इत्येष विशेषो लभ्यते।
"अनूङ्()" इति यद्ययं पर्युदासः स्यात्(), ऊङोऽन्योऽनूङिति--ततो नञिवयुक्तन्यायेन (व्या।प।६५) तत्सदृशानां टाबादीनां प्रत्ययानां ग्रहणे सति तदन्तस्यैव पुंवद्भावः स्यात्(), ऐडविडवृन्दारिका, दारदवृन्दारिकेत्यत्र न स्यात्()।
इडविडोऽपत्यं स्त्रीति "जनपदशब्दात्? क्षत्रियादञ्()"
४।१।१६६ इत्यत्प्र्रत्ययः। दरदोऽपत्यमिति "द्व्यञ्मगध" (४।१।
१७९) इत्यादिनाण्? तयोः "अतश्च"
४।१।१७५ इति लुक्(),
तत इडविट्? चासौ वृन्दारिका चेति, दरच्चासौ वृन्दारिका चेति "वृन्दारकनागकुञ्जरैः"
२।१।६१ इति समासः, तत्रेदानीं "पुंवत्कर्मधारय"
६।३।४१ इत्यादिना पुंवद्भावो न प्राप्नोति; ऊङ्सदृशप्रत्ययानतराभावात्(), ततश्चेडविट्()शब्दस्यैडविडशब्दो दरच्छब्दस्य दारदशब्दो न स्यात्()। प्रसज्यप्रतिषेधे सति तु भवति; अत्राऽप्यूङभावस्य भावादित्यालोच्य प्रसजयप्रतिषेधोऽयमिति दर्शयन्नाह--ऊङोऽभावोऽनूङिति।
"भाषितपुंस्कादनूङ्()" इति। यद्ययमसमासः स्यान्न बहुव्रीहिः, तदायमर्थः स्यात्()--भाषितपुस्कादुत्तरस्याविद्यमानोङः स्त्र्यर्थवृत्तेः शब्दस्योत्तरपदे परतः पुंवद्भवतीति। एवञ्च सति यथाभूतार्थवाची स्त्रीशब्दस्तथाभूतार्थवाच्येव पुंशब्दस्यादेशो भवतीति सामथ्र्यादुक्तं भवति, ततश्चानिष्टप्रसङ्गः--अङ्गारका नाम शकुनयः तेषां कालिका नाम स्त्रियः, तत एताश्च कालिकावृन्दारिकाश्चेति समासे कृते सत्येतच्छब्दो भा,#इतपुंस्क इति तस्मादुत्तरस्य कालिकाशब्दस्यानूङोऽर्थतोऽन्तरतमोऽङ्गरकशब्दः पुंशब्दादेशः प्रसज्येत; अन्यस्यान्तरतमस्याभावात्()। ततश्चैतदङ्गारकवृन्दारिका इति हि स्यात्(), एतत्कालिकावृन्दारिका इतीष्यते। बहुव्रीहौ तु सत्यनिष्टप्रसङ्गो न भवति, तत्र हि भाषितपुंस्कस्य शब्दस्यानूङः पूंवद्भावेन भवितव्यम्(),
न च कालिकाशब्दो भाषितपुंस्कः--इत्येतत्सर्वमालोच्य बहुव्रीहिरयमिति दर्शयन्नाह--"भाषितपुंस्कादनूङ्? यस्मिन्? स्त्रीशब्दे" इति। "यदि बहुव्रीहिरयम्()" ["यदि--नास्ति काशिकायाम्()] इति। एवं सति "सुपो धातुप्रातिपदिकयोः" (२।४।
७१) इति पञ्चम्या लुक्? प्राप्नोति? अत आह--"अलुग्निपातनात्()" इत्यादि। ननु चालौकिकत्वादस्य वाक्यस्य निपातनादित्ययमपरीहारः, निपातनं हि लौकिकं भवति,
तह्र्रेवं लुकाप्यत्र न भाव्यम्()? अथ लुग्भविष्यतीत्येवावसीयतेऽलुगपि भवतीत्यवसीयताम्()।
"दर्शनीयभार्यः" इति। दर्शनीया भार्याऽस्येति बहुव्रीहिः। "गोस्त्रियोरुपसर्जनस्य"
१।२।४८ इति ह्यस्वत्वमुत्तरपदस्य। दर्शनीयत्वं नामात्र सामान्ये विशेषो दर्शनीयशब्दस्य प्रवृत्तिनिमित्तम्()। तमेकमेवार्थमुपादायासी पुंसि स्त्रियां च वत्र्तते--दर्शनीयो देवदत्तः; दर्शनीया भार्येति।
तस्मात्? समानायामाकृतौ दर्शनीयशब्दो भाषितपुंस्को भवति; स्त्रियाञ्च वत्र्तते, न चास्मादूङ्()। अतो भार्याशब्दे स्त्रीलिङ्ग उत्तरपदेऽस्य स्त्रीशब्दस्य "पुंशब्दस्येव रूपं भवति। ["पुंशब्दस्यैव"--मुद्रितः पाठः] एवं "श्लक्ष्णचूडः" इत्यादावपि योजनीयम्()।
"ग्रामणिदृष्टिः" इति। अत्र सर्वमस्ति, न तु ग्रामणीशब्दः स्त्रियां वर्तते,
किं तर्हि? नपुंसक इति न भवति पुंवद्भावः। "द्रोणीभार्यः" इति। द्रोणशब्देन भाषितः पुमान्(), न तु समाने प्रवृत्तिनिमित्त।
यस्मात्? परिमाणविशेषं प्रवृत्तिनिमित्तमुपादाय पुंसि परिमाणिनि वर्तते। जातिविशेषं तूपादाय स्त्रियां गवादन्यां वर्तते। यत्र गावोऽदन्ति सा गवादनी द्रोणीशब्देनोच्यते। तस्मान्न द्रोणशब्दः समानायामाकृतौ भाषितपुंस्कः।
"कथम्()" इत्यादि। यदि समानायामाकृतौ यो भाषितपुंस्कस्तस्य पुंवद्भाव उच्यते, एवं च "गर्भिभार्यः" इत्यादौ पुंवद्भावो न प्राप्नोति। गर्भप्रभृतीनां शब्दानां भिन्नायामाकृतौ भाषितपुंस्कत्वादित्यभिप्रायः। अनवयवभूतान्तर्वर्तिवस्तुविशेषसम्बन्धे हि सति स्त्री गर्भिणीत्युच्यते। व्रीहिस्त्वन्तर्वर्त्त्यवयवस्तुविशेषसम्बन्धे सति गर्भीत्युच्यते।
तस्मात्? पुंसि स्त्रियां च वर्तमानस्य गर्भिशब्दस्य प्रवृत्तिनिमित्तं भिद्यते। प्रसूतप्रजातशब्दयोरपि प्रवृत्तिनिमित्तं क्रियकृतिर्भिन्ना। स्त्रियां हि वर्तमानौ तौ गर्भविमोक्षणं प्रवृत्तिनिमित्तमुपादय वत्र्तते, पुंसि तु गर्भाधानम्()। "कत्र्तव्योऽत्र प्रयत्नः" इति। केचिद्व्याचक्षते--उपसंख्यानं कर्तव्यमिति। अपरे पुनराहुः--स्त्रिया पुंवदिति योगविभागः कर्तव्यः। अथ वा--"कर्तव्योऽत्र यत्नः" इत्यनेनेदं दर्शयति--यद्यपि स्त्रियां व्रीहौ च गर्भत्वभेदः, तथापि स नाश्रयितव्यः। यत्तु तत्रावयवानवयवभेदमुत्सृज्य सामान्येनान्तर्वर्त्तिवस्तुविशेषसम्बन्धमात्रम्(), तदेवाश्रयितव्यम्()। अतस्तदपेक्षया स्त्रियां व्रीहौ च वर्तमानस्य गर्भिशब्दसय तुल्यमेव प्रवृत्तिनिमित्तमिति। एवं प्रसूतप्रजातशब्दयोरप्यपत्याधानविमोक्षणभेदं त्यक्त्वाऽयमपत्यवानियमपत्यवतीत्यपत्यवत्सम्बन्धमात्रमाक्षितमित्येतद्व्याख्यानमि#ईति प्रत्यन्तः कत्र्तव्य इति।
"ब्राहृबन्धूभार्यः" इति।
ब्राहृबन्धूशब्दात्? "ऊङुतः"
४।१।६६ इत्यूङ्()। "कल्याणीपञ्चमाः" इति।
"अप्? पूरणीप्रमाण्योः"
५।४।११६ इत्यप्समासान्तः, पञ्चानां पूरणीति डट्(), तस्य "नान्तादसंख्यादेर्मट्()"
५।२।४९, ततः "टिड्ढाणञ्()"
४।१।१५ इति ङीपि कृते पञ्चमी भवति। "प्रधानपूरणीग्रहणं कत्र्तव्यम्()" इति। प्रधानं पूरणी गृह्रते येन व्याख्यानेन तद्व्याख्यानं प्रधानपूरणीग्रहणम्(),
तत्? कत्र्तव्यम्()--प्रधानं या पूरणी तस्यां प्रतिषेधो यथा स्यात्(), अप्रधानभूतायां तस्यां मा भूदिति। तत्रेदं व्याख्यानम्()--इह "द्वन्द्वे धि"
२।२।३२ इति प्रियादिशब्दस्य पूर्वनिपाते प्राप्ते परनिपातलक्षणव्यभिचारचिह्नेन सूचितं व्यभिचार्ययं प्रतिषेधः क्वचिदेव वत्र्तते, न सर्वत्रेति। तेन यत्रैव प्रधानभूता पूरणी तत्रैव भवति, नान्यत्रेति। तेन यत्रासौ भवति तत्र तस्या एव प्रधानभूताया पूरण्या ग्रहणं युक्तम्()।
क्व पूरण्याः प्राधान्यम्()? यत्र तस्याः समासेऽभिधेयत्वेनान्तर्भावः, यथानन्तरोक्तप्रत्युदाहरणे। तत्र ह्रवयवेन विग्रहः। समुदायस्त्ववयवभेदादभिन्नः, समासार्थ एव। "तत्र" इति। यथैवं प्रथमा, द्वितीया, तृतीया, चतुर्थी चाभिधीयते, तथा पञ्चम्यपि। "कल्याणपञ्चमीकः पक्षः" इति। अत्र तु तिरोहितावयवभेदः पक्ष एवान्यपाद्रथः प्रधानम्(), पञ्चमी तु रात्रिः।
अस्मिन्? पक्षेऽन्यपदार्थोऽनुमेयैव, न त्वभिधेया। यथा वृक्षशब्दे मूलादयः, ततस्तद्वदर्थमप्यनभिधेयत्वादर्थोऽप्रधानम्()।
अथाप्? समासान्तः कस्मान्न भवति? इत्याह--"अप्पूरणीप्रमाण्यो" इत्यादि।
अथ दृढभक्तिः,
शोभनभक्तिरित्यादौ कथं पुंवद्भावः यावता प्रियादित्वात्? प्रतिषेधेन भवितव्यम्()? इत्याह--"दृढभक्तिरित्येवमादिषु" इत्यादि। अस्त्रीवाचिनः पूर्वपदस्य विवक्षितत्वाद्दृढभक्तिरित्येवमादि लक्ष्यं सिद्धमित्येवं समाधेयम्()। द्वेष्यं परिहत्र्तव्यमित्यर्थः। दृढशब्दोऽत्रादाढर्()निवृत्तिपरः प्रयुक्तः। अत्रादाढर्()निवृत्तिपरायां चोदनायां लिङ्गविशेषोपादानमनुपकारकमेवेति। अतः स्त्रीत्वमिह न विवक्षितम्()। तस्मादस्त्रीलिङ्गस्य दृढशब्दस्यायं प्रयोग इत्यभिप्रायः॥
स्त्रियाः पुंवत्। "भाषित पुंस्कादनू"ङिति समस्तमेकपदं "स्त्रिया" इति षष्ठ()न्तस्य विशेषणमित्यभिप्रेत्य व्याचष्टे--भाषितपुंस्कादिति। "अनू" ङित्यस्य व्याख्यानम्-ऊङोऽभाव इति। अर्थाभावेऽव्ययीभावः, नञ्तत्पुरुषो वा। "भाषितपुंस्का"दिति दिग्योगे पञ्चमी। "पर" इति प्रथमान्तमध्याहार्यम्। तथाच भाषितपुंस्कात् पराऽनूङ् यस्येति विग्रहे बहुव्रीहिरिति फलति। ननु समासे सति पञ्चम्या सुक्प्रसङ्ग इत्यत आह--निपातनादिति। इदमुपलक्षणम्। निपातनादप्रथमान्तस्यापि बहुव्रीहिः, परशब्दलोपश्चेत्यपि बोध्यम्। यद्वा अत एव निपातनादप्रयुज्यमानेऽपि परशब्दे तदर्थे गम्ये पञ्चमी। नन्वेवमपि "स्त्रिया" इति षष्ठ()न्तस्य "भाषितपुंस्कादनू"ङिति यदि विशेषणं स्यात्तर्हि भाषितपुंस्कादनूङ" इति षष्ठी श्रूयेतेत्यत आह--षष्ठ()आश्च लुगिति। "निपातना"दित्यनुषज्यते। भाषितः पुमान् येन तद्भाषितपुंस्कं, तदस्यास्तीति अर्शाअद्यच्। पुंस्त्वे स्त्रीत्वे च एकप्रवृत्तिनिमित्तकमिति यावत्। "तृतीयादिषु भाषितपुंस्क"मित्यत्र व्याख्यातमेतत्। तदाह--तुल्ये प्रवृत्तिनिमित्ते इति। स्त्रीवाचकस्य शब्दस्येति। स्त्रीलिङ्गस्येत्यर्थः। "स्त्रिया" इति षष्ठ()न्तं न स्त्रीप्रत्ययपरमिति भावः। "पुंव"दिति रूपातिदेशः। पुंस इव पुंवदिति षष्ठ()न्ताद्वतिः। तदाह--पुंवाचकस्येव रूपमिति। "स्त्रिया"मिति सप्तम्यन्तमपि न स्त्रीप्रत्ययपरं किन्तु स्त्रीलिङ्गपरम्। तच्च "अलुगुत्तरपदे" इत्यधिकृते उत्तरपदेऽन्वेति। तदाह--स्त्रीलिङ्गे उत्तरपदे इति। "अपूरणीप्रियादि()इआ"त्येतद्व्याचश्टे- न तु पूरण्यां प्रियादौ च परत इति। पूरणीति स्त्रीलिङ्गनिर्देशात्स्त्रीलिङ्गः पूरणप्रत्ययान्तो विवक्षित इति ज्ञेयम्। तुल्ये प्रवृत्तिनिमित्ते इति कम्?। कुटीभार्यः। अत्र पुंवत्त्वं न भवति, कुटीशब्दो घटे पुंलिङ्गः, गेहे तु स्त्रीलिङ्ग इति प्रवृत्तिनिमित्तभेदात्। "स्त्रीप्रत्ययः पुंवत्स्या"दित्युक्ते तु स्त्रीप्रत्ययस्य लोपः पर्यवस्येत्। ततश्च पट्वी भार्या यस्य स पटुभार्य इत्यत्र उत्तरपदं परनिमित्तमाश्रित्य ङीषो लोपे तस्य "अचः परस्मिन्" इति स्थानिवत्त्वादुकारस्य यण्स्यात्। ह्यस्व इति। चित्रा गावो यस्येति विग्रहे बहुव्रीहिसमासे सुब्लुकि सति अनेकमिति प्रथमान्तनिर्दिष्टतया, विग्रहे नियतविभक्तिकतया वा उपसर्जनत्वे सति, चित्रगोशब्दे ओकारस्य "गोस्त्रियो"रित्युकारो ह्रस्व इत्यर्थः। ननु चित्रा गाव इति लोकिकसमासाभ्युपगमे सुपो लुकः प्राक् चित्रा अस इत्यत्र पूर्वसवर्णदीर्घे, गो अस् इत्यत्र पूर्वरूपे च एकादेशे कृते तस्य परादिवत्त्वेन असो लुकि चित्रशब्दे अकारो न श्रूयेत, चित्रगुरित्यत्र उकारश्च न श्रूयेत, पूर्वान्तवत्त्वे तु परिशिष्टस्य सकारमात्रस्य सुप्त्वाऽभावाल्लुक् न स्यादित्यत आह--चित्रा अस् इति। गोशब्दस्य स्त्रीलिङ्गत्वात्तद्विशेषणत्वाच्चित्रेति स्त्रीलिङ्गनिर्देशः। "प्रत्ययोत्तरपदयोश्चे"ति सूत्रभाष्यरीत्या "अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते" इति न्यायात्प्रागेव पूर्वसवर्णदीर्घात्सुब्लुगिति भावः। चित्रगुरिति। बहुव्रीहौ ह्यस्वत्वे चित्राशब्दस्य पुंवत्त्वमिति भावः। रूपवद्भार्य इति। रूपवती भार्या यस्येति विग्रहः। अत्र उपसर्जनह्यस्वः। "रूपवती" शब्दस्य पुंवत्त्वम्। ननु चित्रा जरती गौर्यस्येति विग्रहे कथं त्रिपदबहुव्रीहिः, "सुप्सुपे" त्येकत्वस्य विवक्षतत्वादित्यत आह--अनेकोक्तेरिति। शेषग्रहणात्प्रथमान्तमिति लब्धम्। एकस्य प्रथमान्तस्य समासो नोपपद्यते, समास इत्यन्वर्थसंज्ञाविज्ञानात्, ततश्चार्थादनेकं प्रथमान्तमिति सिद्धे पुनरनेकग्रहणाद्द्विबहूनां प्रथमान्तानां बहुव्रीहिरिति भाष्ये स्पष्टमिति भावः। अत्रेति। त्रिपदबहुव्रीहावित्यर्थः। चित्राजरतीगुः जरतीचित्रागुर्वेति। गां प्रतिचित्रात्वस्य जरतीत्वस्य च विशेषणत्वाऽविसेषादन्यतरस्य "सप्तमीविशेषणे बहुव्रीहौ" इति पूर्वनिपात इति भावः।
एवं दीर्घेति। दीर्घे तन्व्यौ जङ्घे यस्येति विग्रहः। उभयत्रापि पूर्वमध्यपदयोः पुंवत्त्वमाशह्ख्याह--त्रिपदे इति। उत्तरपदस्येति। समासचरमावयवपदस्य उत्तरपदत्वात्ततृतीयमेव पदमत्रोत्तरपदं वाच्यम्। तत्परकत्वं च मध्यमपदस्यैव, नतु प्रथमपदस्यापि, तस्य मध्यमेन पदेन व्यवधानादित्यर्थः। ननु तर्हि मद्यमपदस्य पुंवत्त्वं दुर्वारम्, उत्तरपदपरकत्वसत्त्वादित्यत आह--द्वितीयमपि न पुंवदिति। पूर्वपदत्वाभावादिति। उत्तरपदेन पूर्वपदमाक्षेपाल्लब्यते। समासप्रथमावयवपदमेव पूर्वपदम्, नतु मध्यमावयवपदमपीति भावः। ननु मध्यमपदापेक्षया प्रथमपदस्य पूर्वपदत्वमस्ति। मध्यमपदस्य च प्रथमपदापेक्षया उत्तरपदत्वमस्तीत्यत आह--उत्तरपदशब्दो हीति। रूढ इति। वैयाकरणसमयसिद्ध इत्यर्थः। इति वदन्तीति। एवंप्रकारेण केचिद्वदन्तीत्यन्वयः। तत्र प्रथमपदस्य त्रिपदबहुव्रीहौ नास्ति पुंवत्त्वमिति युज्यते,उत्त्रपदपरकत्वाऽभावात्। मध्यमपदस्य तु पूर्वपदत्वाभावेऽप्यस्त्येव पुंवत्त्वम्, स्त्रिया पुंवदित्यत्र तु पूर्वपदस्याश्रवणात्, अनुवृत्त्यभावाच्च, किन्तु "उत्तरपदे" इत्यनेन पूर्वपदस्य पुंवत्त्वमित्यर्थाद्गम्यत इति वक्तव्यम्। तदपि न सम्भवतीत्यत आह-नेह पूर्वपदमाक्षिप्यत इति। इह="स्त्रियाः पुंव"दित्यत्र, "उत्तरपदे इत्यनुवृत्तेन पूर्वपदं नाक्षिप्यते, नाऽर्थाद्गम्यत इत्यर्थः। कुत इत्यत आह--आनङृत इत्यत्र यथेति। ऋदन्तानां द्वन्द्वे आनङ् स्यात् उत्तरपदे इति तदर्थः। तत्र चतुर्णा द्वन्द्वे "होतृपोतृनेष्टोद्गातारः" इत्युपान्त्यस्य नेष्टुरानङुदाह्मतः "समर्थः पदविधि"रित्यत्र भाष्ये। तत्रोत्तरपदेन पूर्वपदाक्षेपनियमे नेष्टुरूपान्त्यस्य पूर्वपदत्वाऽभावादानङ् नोपपद्येत। तस्मान्नावश्यमुत्तरपदे विहितं कार्यं पूर्वपदस्यैवेति नियम इत्यर्थः। तेनेति। पूर्वपदाऽनाक्षेपेणेत्यर्थः। उपान्त्यस्येति। अन्त्यस्य समीपमुपान्त्यम्। चरमावयवसमीपवर्तिनो मध्यमस्येत्यर्थः। पुंवदेवेति। "रूप"मिति शेषः।
तदेव दर्शयति-चित्राजरद्गुरिति। अत्र चित्राशब्दस्य न पुंवत्त्वम्, मध्यमेन व्यवधानात्, उत्तरपदपरकत्वाऽभावाच्चेति भावः। इत्यादीति। जकतीचित्रगुः। तन्वीदीर्घजङ्घः। ननु "आनङृतः"इत्यत्र "होतृपोतृनेष्टोद्गातारः" इति भाष्योदाहरणान्मास्तु पूर्वपदाक्षेपः। "स्त्रियाः पुंव"दिति सूत्रे तदनाक्षेपे किं प्रमाणमित्यत आह--अत एवेति। "स्त्रियाः पुंव"दित्यत्रापि पूर्वपदाऽनाक्षेपादित्यर्थः। द्वन्द्वगर्भेऽपी"त्यनन्तरं "बहुव्रीहा"विति शेषः। भाष्यमिति। यद्यपि कृत्स्नभाष्यपरिशोधनायां चिंत्राजरद्गुरित्युदाहरणं भाष्ये क्वापि न दृश्यते, तथापि "चित्राजरद्गु"रितीत्यनन्तरं "प्रयाग"मिति शेषः। "भाष्य"मित्यस्य-"पट्वीमृदुभार्य" इति प्रकृतसूत्रस्थभाष्यमित्यर्थः। "सूचयती"ति शेषः। "स्त्रियाः पुंव"दिति प्रकृतसूत्रभाष्ये पट्व्यौ मृद्व्यौ भार्ये यस्येति द्वन्द्वगर्ङबहुव्रीहौ पट्वीमृदुभार्यं इत्युदाह्मतम्। तत्र पट्वीमृदुशब्दात्मको द्वन्द्वः पूर्वपदं, न तस्य भाषितपुंस्कत्वमस्तीति न पुंवत्त्वे, द्वन्द्वस्य परवल्लिङ्गतानियमात्। तत्र द्वन्द्वे पूर्वपदस्य पट्वीशब्दस्य तु न पुंवत्त्वं, मध्यमपदेन व्यवधानादुत्तरपदपरकत्वाऽभावात्। मद्यमपदस्यानुत्तरपदत्वादसमानाधिकरणत्वाच्च न तस्मिन्परे पुंवत्त्वसंभवः। मृद्वीशब्दस्य तु केवलस्य भाषुतपुंस्कत्वादुत्तरपदपरकत्वाच्च पुंवत्त्वमिति तदाशयः। "स्त्रियाः पुंव"दित्यत्र पूर्वपदाक्षेपे तु मृदुशब्दस्य पूर्वपदत्वाऽभावेन पुंवत्त्वाऽप्रवृत्तेः तदसङ्गतिः स्पष्टैव। ततश्च "पट्वीमृदुभार्यं" इति भाष्यं "चित्राजरद्गु"रिति प्रयोगं गमयतीत्यर्थः। कर्मधारयेति। जरती चासौ चित्रा चेति कर्मधारयः। "पुंवत्कर्मधारये"ति जरतीशब्दस्य पुंवत्त्वान्ङीपो निवृत्तिः। ततस्च जरच्चित्रा गौर्यस्येति कर्मधारयपूर्वपदत्वे बहुव्रीहौ पूर्वपदस्य जरच्चित्राशब्दस्य "स्त्रियाः पुंव"दिति पुंवत्त्वाट्टापो निवृत्तिरिति भावः। कर्मधारयोत्तरेति। जरती चासौ गौश्चेति कर्मधारये "गोरतद्धितलुकी"ति टचि अवादेशे "पुंवत्कर्मधारये"ति जरतीशब्दस्य पुंवत्त्वे ङीपो निवृत्तौ टित्त्वान्ङीपि जरद्गवीशब्दः। ततश्चित्रा जरद्गवी यस्येति कर्मधारयोत्तरपदके बहुव्रीहौ "नद्यृतश्चे"ति कपि चित्राशब्दस्य "स्त्रियाः पुंव"दिति पुंवत्त्वे "चित्रजरद्गवीक" इति रूपमित्यर्थः। स्त्रियाः किमिति। षष्ठ()न्तस्य प्रश्नः। ग्रामणिदृष्टिरिति। ग्रामणीशब्दस्य नपुंसकत्वे "ह्यस्वो नपुंसके" इति ह्यस्वे ग्रामणिशब्द इदन्तः। कुलशब्दो नपुंसकत्वस्फोरणार्थः। दृष्टिशब्देन नेत्रस्थानापन्नं विवक्षितम्। ग्रामणि दृष्टिरस्येत्येव विग्रहः। "स्त्रियाः" इत्यस्याऽभावे ग्रामणीशब्दस्य पुंवत्त्वे नपुंसकह्यस्वनिवृत्तौ "ग्रामणीकुल"मिति स्यादिति भावः। गङ्गाभार्य इति। अत्र गह्गाशब्दस्य नित्यस्त्रीलिङ्गतया बाषितपुंसकत्वाऽभावान्न पुंवत्त्वमिति भावः। वामोरूभार्य इति। वामौ=सुन्दरौ ऊरू यस्या इति बहुव्रीहिः। "संहितशफलक्षणबामादेश्चेत्यूङ्। तदन्तस्य पुंवत्त्वे ऊङो निवृत्तौ "वामोरुभार्य" इति पूर्वपदमुदन्तमेव स्यादिति भावः। स्त्रियां किमिति। सप्तम्यन्तस्य प्रश्नः। कल्याणीप्रदान इति। अत्र प्रधानशब्दस्य नित्यनपुंसकत्वात् कल्याणीशब्देन सामानाधिकरण्येऽपि स्त्रीलिङ्गत्वात्तस्मिन्परे पुंवत्त्वं नेति भावः। पूरण्यां त्विति। "पुंवत्त्वानिषेधोदाहरणे विशेषो वक्ष्यते" इति शेषः।