जनपदशब्दो यः क्षत्रियवाची, तस्मादपत्ये अञ् प्रत्ययो भवति। पाज्चालः ऐक्ष्वाकः। वैदेहः। जनपदशब्दातिति किम्? द्रुह्योरपत्यं द्रौह्यवः। पुरवः। क्षत्रियातिति किम्? ब्राह्मणस्य पञ्चालस्य अपत्यं पाञ्चालिः। वैदेहिः। क्षत्रियसमानशब्दाज् जनपदशब्दात् तस्य राजन्यप्त्यवत्। पञ्चालानां राजा पाञ्चालः। वैदेहः। मागधः।
जनपदक्षत्त्रियवाचकाच्छब्दादञ् स्यादपत्ये। पाञ्चालः। (क्षत्त्रियसमान शब्दाज्जनपदात्तस्य राजन्यपत्यवत्)। पञ्चालानां राजा पाञ्चालः। (पूरोरण् वक्तव्यः)। पौरवः। (पाण्डोर्ड्यण्)। पाण्ड्यः॥
जनपदवृत्तिशब्दः पञ्चालादिर्जनपद इत्युक्तः,क्षत्रियवृत्तिः क्षत्रिय इत्यभिधानेऽभिधेयोपचारात्, साहचर्याद्वा। ननु पञ्चालादयः शब्दाः, ते "तस्य निवासः"
४।२।६८ इति तद्धिते कृते तस्य "जनपदे लुप्"
४।२।८० इति लुपि च जनपदे वत्र्तन्ते,
तत् कथमवरकालया जनपदशब्दतया नित्याः क्षत्रियशब्दा विशेष्यन्ते? कथं पुनः क्षत्त्रियसम्बन्धादेते जनपदे वत्र्तन्त इत्येतदभिधातुमर्हति विद्वान्। सूत्रकारेण हि "तदशि,()यं संज्ञाप्रमाणत्वाल्लुव्योगाप्रख्यानात्" (१।२।५३,५४) इतियुक्तवद्भावं लुपञ्च प्रत्यादिशता जनपदे क्षत्त्रियेष्विव स्वत एव पञ्चालादिशब्दस्य वृत्तिरुक्ता। यथा शब्दा नित्यास्तथा पञ्चालादिरपि जनपद इति कुतो जनपदवचनानताया अवरकालता !"पाञ्चालः" इत्यादि। पञ्चालादयः शब्दा देशे सन्तः क्षत्त्रियवाचिनोऽपि भवन्ति स्वभावत एव, तेभ्योऽपत्यार्थेऽञ्। "ऐक्ष्वाकः" इति। इक्ष्वाकुशब्दस्य "दाण्डिनायनहस्तिनायन"
६।४।१७४ इत्यादौ सूत्रे उकारलोपो निपातितः।
"द्रौह्रवः" इति। द्रह्रुशब्दः क्षत्त्रियवचन एव, न जनपदशब्दः, तेनाणेव भवति। "पाञ्चालिर्वैदेहिः" इति। इह पञ्चालविदेहशब्दौ भवतो जनपदशब्दौ, न तु क्षत्त्रियवचनौ। अपि तु ब्राआहृणवचनो, तेनेञेव भवति।
"क्षत्त्रियसमानशब्दात्" इत्यादि। क्षत्त्रियवचन एव शब्द उपचारेण क्षत्त्रिय इत्युक्तः जनपदशब्दो जनपद इति। क्षत्त्रियेण समानः शब्दो यस्य स तथोक्तः।
तस्मात् क्षत्त्रियसमानशब्दादस्येति षष्ठीसमर्थाद्राजन्यभिधेयेऽपत्यवत् प्रत्ययोत्पत्तिरिति वक्तव्यम्। "अवृद्धादपि बहुवचनविषयात्"
४।२।१२४ (इति) प्राप्तस्य वुञोऽपवादः। यथा पञ्चालस्यापत्यमित्यत्र भवति पाञ्चालः, तथा पञ्चालानां राजा पाञ्चाल इत्यत्रापि भवति।"मागधः" इति। मगधशब्दादपत्ये "द्व्यञ्मगध"
४।१।१६८ इत्यादिनाण् भवति, तथा तस् यराजेत्यत्रापि॥