वाग्दिक्। वाक्, दिक् , पश्यत्-एतेभ्यः परस्याः षष्ठ()आ अलुक् स्यात्-युक्ति, दण्ड, हर एतेषु क्रमादुत्तरपदेषु परेष्वित्यर्थः। वाचोयुक्तिरिति। शब्दप्रयोग इत्यर्थः। दिशोदण्ड इति। अधिकरणस्य शेषत्वविवक्षायां षष्ठी। पश्यतोहर इति। पस्यन्तमनादृत्य हरतीत्यर्थः। "षष्ठी चानादरे" इति षष्ठी।
आमुष्यायणेति। वार्तिकमिदम्। एते निपात्यन्ते। अमुष्येति। अमुष्याषत्यमित्यर्थे "नडादिभ्यः फगि"ति फकि आयन्नादेशे आदिवृद्धौ तद्धितान्तत्वात्प्रातिपदिकतया तदवयवत्वात्प्राप्तस्य सुब्लुको निषेधे नस्य णत्वे "आमुष्यायण" इति रूपमित्यर्थः। अमुष्य पुत्र इति विग्रहे षष्ठीसमासे षष्ठ()आ अलुकि "अमुष्यपुत्र" शब्दः। अमुष्यपुत्रस्य भाव इत्यर्थे "द्वन्द्वमनोज्ञादिभ्यश्चे"ति वुञि अकादेशे पुत्रशब्दात्सुपो लुकि आदिवृद्धौ स्त्रीत्वाट्टापि "प्रत्ययस्था"दितीत्त्वे आमुष्यपुत्रिकाशब्द इत्यर्थः। एवमिति। अमुष्य कुलमिति षष्ठीसमासे षष्ठ()आ अलुकि अमुष्यकुलशब्दाद्बुञादिः पूर्ववदित्यर्थः।
देवानामिति। वार्तिकमिदम्।मूर्खः-अज्ञः। "दिवु क्रीडायाम्"। देवाः-क्रीडासक्ता मूर्खाः, तेषां प्रियोष()प्रि मूर्ख एव, मूर्खप्रियस्यावश्यं मूर्खत्वादिति "अजेर्वी"त्यत्र कैयटः।
शेपपुच्छेति। वार्तिकमिदम्। षष्ठ()आ अलु"गिति सेषः। संज्ञायामिति। "भाष्यम् ष शुनश्शेप इति। शुनः शेप इव शेपो यस्येति विग्रहः। "मेढ्रो मेहनशेपसी"। शेफशब्दोऽप्यस्ति, "शेपाय स्वाहा" इति दर्शनात्। शुनःपुच्छ इति। शुनः पुच्छमिव पुच्छं यस्येति विग्रहः। एवं शुनोलाङ्गूल इत्यपि। ऋषिविशेषणां संज्ञा एताः।
दिवश्च दासे इति। वार्तिकम्। "षष्ठ()आ अलु"गिति शेषः। दिवोदास इति कश्चिद्राजर्षिरयम्।