सूत्रम्
द्वंद्वमनोज्ञादिभ्यश्च॥ ५।१।१३२
काशिका-वृत्तिः
द्वन्द्वमनोज्ञाऽदिभ्यश् च ५।१।१३३
द्वन्द्वसंज्ञकेभ्यः मनोज्ञाऽदिभ्यश्च वुञ् प्रत्ययो भवति भावकर्मणोः। गोपालपशुपालानां भावः कर्म वा गौपालपशुपालिका। शैष्योपाध्यायिका। कौत्सकुशिकिका। मनोज्ञाद्भ्यः मानोज्ञकम्। काल्याणकम्। मनोज्ञ। कल्याण। प्रियरूप। छान्दस। छात्र। मेधाविन्। अभिरूप। आढ्य। कुलपुत्र। श्रोत्रिय। चोर। धूर्त। वैश्वदेव। युवन्। ग्रामपुत्र। ग्रामखण्ड। ग्रामकुमार। अमुष्यपुत्र। अमुष्यकुल। शतपत्र। कुशल। मनोज्ञादिः।
न्यासः
द्वन्द्वमनोज्ञादिभ्यश्च। , ५।१।१३२
द्वन्द्वात्? त्वतलादिषु प्राप्तेषु वुञ्विधीयते। मनोज्ञादिषु यो गुणवचनस्तस्मात्? ष्यञि, चौरधूत्र्तशब्दाभ्यामपि ब्राआहृणादित्वात्? ष्यञ्येव; युवशब्दाद्यवादित्वादणि, शेषेभ्यस्त्वतलोः। "अमुष्यपुत्रः" इति। निपातनाद्विभक्तेरलुक्()। इह द्वन्द्वमनोज्ञादी द्वौ राशी, प्रत्ययार्थावपि भावकर्मणी द्वावेव--इति यथासंख्यं प्र्प्नोति, तत्पूर्ववदस्वरितत्वान्न भवति।
अथ वा--चकारोऽत्र समुच्चयार्थः क्रियते। तस्य चान्यत्समुच्चेतव्यं नास्तीति वुञ्विधिमेव प्रत्येकं भावकर्मणोः समुच्चिनोति। तेनैकस्माद्राशेर्भावे कर्मणि च वुञ्? भवति, न तु यथासंख्यम्(); अन्यथा हि समुच्चयो नोपपद्यते॥
बाल-मनोरमा
द्वन्द्वमनोज्ञादिभ्यश्च १७७५, ५।१।१३२
द्वन्द्वमनोज्ञादिभ्यश्च। द्वन्द्वान्मनोज्ञादिभ्यश्च षष्ठ()न्तेभ्यो वुञित्यर्थः। शैष्योपाध्यायिकेति। शिष्यश्च उपाध्यायश्चेति द्वन्द्वाद्वुञ्। स्त्रीत्वं लोकात्। यद्यपि "योपधा"दित्येव सिध्यति तथापि गौपालपशुपालिकेत्युदाहरणं बोध्यम्।