सुञ् निपातो गृह्यते। इगन्तरय सुञि परतो मन्त्रविषये दीर्घो भवति। अभी षु णः सखीनाम्। ऊर्ध्व ऊ षु ण ऊतये। सुञः
८।३।१०९ इति षत्वम्, नश्च धातुस्थोरुषुभ्यः
८।४।२६ इति णत्वम्।
सुञिति निपातस्य ग्रहणम्()। "अभि षु णः" इति। अभिशब्दस्य दीर्घत्वम्()। "सुञः
८।३।१०७ इति षत्वम्()। "नः" इत्ययमस्मदादेशः, तस्य "नश्च धातुस्थोरुषुभ्यः"
८।४।२६ इति णत्वम्()। "ऊष्र्व ऊ षु णः" इति। उकारस्य दीर्घः।