ऋचि इति वर्तते। द्व्यचस्तिङन्तस्य अतः ऋग्विषये दीर्घो भवति। विद्मा हि त्वा गोपतिं शूर गोनाम्। विद्मा शरस्य पितरम्। द्व्यचः इति किम्? अश्वा भवत वाजिनः। अतः इति किम्? आ देवान् वक्षि यक्षि च।
"अ()आआ भरत वाजिनः" इति। "भृ" इत्येतस्य लोण्मध्यमपुरुषस्य बहुवचने रूपमेतत्()। "दक्षि पक्षि" इति। वचेर्यजेश्च परस्य लेटः सिप्(), "कत्र्तरि शप्()"
३।१।६८। वचेरदादित्वाच्छपो लुक्()। यजेरपि "बहुलं च्छन्दसि"
२।४।७६ इति॥