पृतना ऋत इत्येताभ्याम् उत्तरस्य सहिसकारस्य मूर्धन्यादेशो भवति। पृतनाषाहम्। ऋताषाहम्। केचित् सहेः इति योगविभागं कुर्वन्ति। ऋतीषहम् इत्यत्र अपि यथा स्यात्। ऋतिशब्दस्य पूर्वपदस्य् संहितायाम् एतद् दीर्घत्वम्। अवग्रहे तु ऋतिसहम् इत्येव भवति। चकारो ऽनुक्तसमुच्चयार्थः, तेन ऋतीषहम् इति सिद्धम्।
"पूर्वपदात्"
८।३।१०८ इत्येवं सिद्धे प्रपञ्चार्थमिदम्()। "सुञ ["सुञः"--प्रांउ।पाठः] इति निपातो गृह्रते" [निपात इह गृह्रते--काशिका] इति।
अथ "षुञ्? अभिषवे" (धा।पा।
१२४७) इति धातुः कस्मान्न गृह्रते? एवं मन्यते--यत्रास्य धातोग्र्रहणमिच्छति तत्र क्तिपा निर्द्देशं करोति। शैलीयमाचार्यस्य,
यथा--"उपसर्गात्? सुनोति"
८।३।६५ इत्यत्र "सुनोतेः स्यसनोः"
८।३।११९ इत्यत्र च। तदिहापि यदि धातोग्र्रहणमभीष्टं स्यात्(), श्तिपा निर्द्देशं कुर्यात्(); नैव कृतम्(), अतो निपातस्येवं ग्रहणमवसीयते। "अभीषुणः" इति। षष्ठीबहुवचनस्यास्मच्छब्दस्य "बहुवचनस्य वस्नसौ"
८।१।२१ इति नस्(), "डकः सुञि"
६।३।१३३ इति दीर्घः। "नश्च धातुस्थोरुषुभ्यः"
८।४।२६ इति णत्वम्()॥