उपसर्गात् स्वाङ्गं ध्रुवं पर्शुवर्जितम् अन्तोदात्तं भवति बहुव्रीहौ समासे। प्रपृष्ठः। प्रोदरः। प्रललाटः। ध्रुवम् इत्येकरूपम् उच्यते, ध्रुवम् अस्य शीतम् इति यथा। सततं यस्य प्रगतं पृष्ठं बह्वति स प्रपृष्ठः। उपसर्गातिति किम्? दर्शनीयललाटः। स्वाङ्गम् इति किम्? प्रशाखो वृक्षः। ध्रुवम् इति किम्? उद्बाहुः क्रोशति। अपर्शु इति किम्? उत्पर्शुः। विपर्शुः।
उपसर्गात्? प्राद्युपलक्षणं वेदितव्यम्()। स्वङ्गं प्रति क्रियायोगाभावात्()। प्रादिग्रहणमेव तु न कृतं वैचित्र्यार्थम्()। ध्रुवशब्दोऽयमवयवेप्यस्ति, यथा "ध्रुवमपायेऽपादानम्()"
१।४।२४ इति, एकस्वरूपेप्यस्ति, यथा ध्रुवमस्य शीलमिति; तदिहैकस्वरूपे वर्तमानो गृह्रत इति दर्शयितुमाह--"ध्रुवमित्येकरूपमुच्यते" इत्यादि। "सततम्()" इत्यादिना ध्रुवत्वं पृष्ठस्य दर्शयति। पृष्ठशब्दोऽन्तोदात्तः। "पृषु मृषु वृषु सेचने" (धा।पा।७०५।७०६,७०७) इत्यस्य थकि व्युत्पादितत्वात्()।
"दर्शनीयललाटः" इति। दर्शनीयशब्दः "उपोत्तमं रिति"
६।१।२११ इति मध्योदात्तः। "लल ईप्सायाम्()" (धा।पा।
१६८७) इत्यस्मात्? "उणादयो बहुलम्()"
३।३।१ इत्याटप्रत्ययः। तेन ललाटशब्दो मध्योदात्तः। "प्रशाखो वृक्षः" इति। "उणादयो बहुलम्()" (३।३।
१) इति वचनात्? "शो तनूकरणे" (धा।पा।
११४५) इत्यस्मात्? खः, टाप्(), सवर्णदीर्घत्वम्(), "एकादेश उदात्तेनोदात्तः"
८।२।५। तेन शाखाशब्दोऽन्तोदात्तः। उद्बाहुः क्ररीशति" इति। अत्र बाहोरेकरूपता नास्तीत्युध्रुवत्वम्()। न ह्रसौ नित्यमूध्र्वबाहुरेव क्रीशति, अपि तु कदाचिदधो बाहुरपि। "उत्पर्शुः" इति। "स्वृशेः ()आण्शुनौ पृ च"(पं।उ।५।
२७) [()आण्? शुनो पृ च--मु।पाठः] इति शुन्प्रत्ययान्तः पर्शुः। तेनायमाद्युदात्तः॥