समासमात्रे वनम् इत्येतदुत्तरपदम् उपसर्गात् परमन्तोदात्तं भवति। प्रवणे यष्टव्यम्। निर्वणे प्रणिधीयते। प्रनिरन्तः इति णत्वम्। समासग्रहणं समासमात्रपरिग्रहार्थम्, बहुव्रीहावेव हि स्यात्।
"समासमात्रे" इति। मात्रग्रहणेन बहुव्रीहेर्निवृत्ति सूचयति। "प्रवणे" इति। यदायं बहुव्रीहिस्तदा प्रकृष्टं प्रकृतं वा वनमस्येति विग्रहः। यदा तु तत्पुरुषः, तदा प्रकृष्टं वनं प्रगतं वा वनमिति विग्रहः। "निर्वणे" इति। अत्रापि यदा बहुव्रीहिः, तदा निर्गतं वनमस्येति विग्रहः। यदा तु तत्पुरुषस्तदा निरगतो वनादिति तत्पुरुषस्तु "कुगतिप्रादयः"
२।२।२८ इति।
किं पुनः स्याद्यदि समासमात्रपरिग्रहार्थं समासग्रहणं न क्रियेत? इत्यत आह--"बहुव्रीहावेव हि स्यात्()" इति। "रञ्जेः क्युन्()"(द।उ।५।२४-पं।उ।२।८०)। ["रजेः"--द।उ।
] बहलवनात्? "वनु याचने" (धा।पा।१४७०) इत्यस्मादपि भवति। तेन वनमाद्युदात्तम्()॥