द्वे इति वर्तमाने उभेग्रहणं समुदायसञ्जाप्रतिपत्त्यर्थम्। ये एवे विहिते ते उभे अपि समुदिते अभ्यस्तसंज्ञे भवतः। ददति। ददत्। दधतु।
उभेग्रहणं किम्? नेनिजति इत्यत्र अभ्यस्तानाम् आदिः इति समुदाये उदात्तत्वं यथा स्यात्, प्रत्येकं पर्यायेण वा मा भूतिति। अभ्यस्तप्रदेशाः अभ्यस्तानाम् आदिः
६।१।१८३ इत्येवम् आदयः।
इह उभेग्रहणं संज्ञिनिर्देशार्थं क्रियते। स च संज्ञिनिर्देशः "द्वे"
६।१।१ इत्यनुवृत्तेरन्तरेणाप्युभेग्रहणं प्रकल्प्यत एव,
तत्? किमर्थं द्वे इत्यनुवत्र्तमान उभेग्रहणं क्रियते? इत्यत आह--"द्वे इत्यनुवत्र्तमाने" इत्यादि। यद्युभेग्रहणं न क्रियेत, तदा प्रत्येकमभ्यस्तसंज्ञा प्रवर्तते। प्रत्येकमपि हि तयोः प्रवर्तमानासौ प्रवृत्तैव भवति। तथा हि द्वावानीयेयातामित्युक्ते प्रत्येकमप्यानयनेन तावानीतौ भवतः।
तस्मात्? समुदाये संज्ञायाः प्रवृत्तिर्यथा स्यादेकैकस्य मा भूदित्येवमर्थमुभेग्रहणम्()। "समुदिते" इति। सहिते समुदाभूते इत्यर्थः। ननु च यत्राभ्यासः श्रूयते तत्रैव यथा स्यात्(), यत्र तु न श्रूयते तत्र मा भूत। ईप्सन्ति, ईप्सन्(),
ऐप्सन्नित्यादौ विषये मा भूदित्येवमर्थमुभेग्रहणं स्यात्()? नैतदस्ति; अभ्यासग्रहणं ह्रनुवत्र्तते, तत्रैवमभिसम्बन्धः क्रियते---द्वे अभ्यस्तसंज्ञे भवतः, अभ्यासश्चेदस्तीति। एवच्च सति विनाप्यभेग्रहणं यत्राभ्यासः श्रूयते, तत्रैव भविष्यति, नान्यत्र। तस्माद्वृत्तिकारोपदर्शितमेवोभेग्रहणस्य प्रयोजनं युक्तम्()। "ददति" इति। ददातेर्लट्(), झि, शप्(), "जुहोत्यादिभ्यः श्लुः"
२।४।७५ "श्लौ"
६।१।१० इति द्विर्वचनम्()। अत्राब्यस्तसंज्ञायां सत्यां "श्नाभ्यस्तयोरातः"
६।४।११२ इत्याकारलोपः, "अदभ्यस्तात्()"
७।१।४ इति झेरदादेशः। "दधातु" ["दधतु"--काशिका] इति। लोट्(), "एरुः"
३।४।८६
"समुदाय उदात्तत्वं यथा स्यात्()" इति। उभेग्रहणे ह्रसति प्रत्यकमभ्यस्तसंज्ञा स्यात्()।
तस्मात्? "अभ्यस्तानामादिः"
६।१।१८३ इत्याद्युदात्तमपि प्रत्येकं स्यात्()। अथपि "अनुदात्तं पदमेकवर्जम्()"
६।१।१५२ इति नास्ति यौगपद्यसम्भवः,
एवमपि पर्यायेण स्यात्()? तस्मात्? "अम्यस्तानामादिः" (६।१।
१८९) इत्येतत्? कार्यं समुदाये यथा स्यात्(), प्रत्येकं पर्यायेण वा मा भूदित्येवमर्थमुभेग्रहणम्()॥