अभ्यस्ता दङ्गादुत्तरस्य झकारस्य अतित्ययम् आदेशो भवति। ददति। ददतु। दधति। दधतु। जक्षति। जक्षतु। जाग्रति। जाग्रतु। अन्तादेशापवादो ऽयं जुसादेशेन तु बाध्यते। अदघुः। अजागरुः। अत्राप्यादेशो कृते प्रत्ययाद्युदातत्वं भवति।
अनात्मनेपदार्थं आरम्भः; आत्मनेपदेषूत्तरसूत्रेणैव सिद्धत्वात्()। "ददति" इति। "श्नाब्यास्तयोरातः"
६।४।११२ इत्याकारलोपः। "ददतु" इति। लोट्(), "एरुः"
३।४।८६ इत्युत्वम्()। जक्षति, जाग्रतीत्यत्र "जक्षित्यादयः षट्()"
६।१।६ इत्यभ्यस्तसंज्ञः।
युक्तं जक्षित्यादिकमुदाहरणम्(), ददतीत्याद्ययुक्तम्(); अत्र झकारस्यात्मलाभकालसमनन्तरमेव ताददन्तरङ्गत्वादन्तादेशेन भवितव्यम्(), ततः शपः श्लुः, "श्लौ
६।१।१० इति द्विर्वचनम्(), ततोऽभ्यस्तसंज्ञा तदा झकारस्य स्थानिनोऽभावादद्भादो न प्राप्नोति। न च शक्यते वक्तुम्()--स्थानिवद्भावाद्भविष्यति। न ह्रत्र स्थानिवद्भावोऽस्ति; अल्विधित्वात्()। नापि बहिरङ्गोऽनवकाशत्वादन्तादेशं बाधित्वाऽदादेशो भविष्यतीति युक्तं परिकल्पयितुम्()। जक्षित्यादिषूपदेशावस्थायामेव लब्धाभ्यस्तसंज्ञकेषु तस्य सावकाशत्वादिति चोद्यमपाकर्तुमाह--"अन्तादेशापवादोऽयम्()" इति। अन्तादेशस्य सामान्येन सर्वत्र प्रसक्तस्यायमद्भावोऽपवाद आरभ्यते। न चापवादविषयमुत्सर्गोऽवगाहते। तथा चोक्तम्()--"पूर्वमपवादाः प्रवत्र्तन्ते पश्चादुत्सर्गाः, परिह्मत्यापवादविषयमुत्सर्गः प्रवर्तते" (पु।प।५६) इति। अत एव तर्हि जुस्भावो न स्यात्()। यथैव ह्रन्तादेशस्य सामान्येन प्रवृत्तस्य विशेषोऽद्भाव आरभ्यमाणोऽपवादः, तथा जुत्भावस्यापीत्याह--"जुसादेशेन तु बाध्यते" इति। "जुसादेशस्यानवकाशत्वादित्यदादेशो बाध्यते। "अददुः" इति। लङ्, "सिजभ्यस्तविधिभ्यश्च"
३।४।१०९ इति झेर्जुस्()। "अजागरुः" इति। जागत्र्तेर्या गुणप्राप्तिस्तस्याः "अविचिण्णल्ङित्सु"
७।३।८५ इति प्रतिषेधल्लक्षणान्तरेण, "जुसिच"
७।३।८३ इत्यनेन गुणः। "अत्राप्यादेशे कृते प्रत्ययाद्युदात्तत्वं भवति" इति। तेन पुनत इत्यादिकं पदं मध्योदत्तं भवतीति भावः। यदि तु विपर्ययः स्यात्(), अन्तरङ्गत्वात्प्रत्ययाद्युदात्तत्वे कृते व्यञ्जनमात्रस्याद्भावो विधीयमानोऽनियतस्वरः प्रसज्येत। तत्र यदासावनुदात्तः स्यात्(), तदा पुनत इत्यादेः पदस्यान्तोदात्तता प्रसज्येत; यदा स्वरितस्तदा मध्यस्वरितता, मध्योदात्तता चेष्यते। ननु च प्रत्ययाद्युदात्तत्वं प्रत्ययमात्रापेक्षयाऽन्तरङ्गम्(), आदेशस्तुप्रकृतिप्रत्ययापेक्षत्वाद्बहिरङ्गः। "अन्तरङ्गबहिरङ्गयोरन्तरङ्गं बलीयः" (व्या।प।९४) इति प्रत्ययाद्युदात्तत्वेनैव पूर्वं भवितुं युक्तम्(), पश्चादादेशेनेति,
तत्कथमुच्यते--अदादेशे कृते प्रत्ययाद्युदात्तत्वं भवतीति? नैतदस्ति उक्तं हि "उपदेशिवद्वचनं कत्र्तव्यम्()" इति। किञ्च--आदेशो नित्यः, कृताकृतप्रसङ्गित्वात्()। स हि कृते प्रत्ययाद्युदात्तत्वं पुनरनित्यम्(), शब्दान्तरप्राप्त्या। तथा ह्रकृतेऽदादेशे झेरिकारस्य प्राप्नोति,
कृते स्वदादेशाकारस्य "शब्दान्तरस्य प्राप्नुवन्? विधिरनित्यो भवति" (व्या।प।१०६)। "नित्यानित्ययोर्नित्यं बलीयः" (व्या।प।९३) इति बलीयस्त्वमस्य। तदेतन्नित्यत्वादनयोर्बलपीयसोः परत्वाददादेशेन पूर्वं भवितव्यम्(), ततः प्रत्यायाद्युदात्तत्वेन।
तस्मात्? सुष्ठूक्तम्()--आदेसे कृते प्रत्ययाद्युदात्तत्वं भवतीति॥