"नञ्समासे न वत्र्तेते" इति।
अनेन क्रियासम्बन्धं दर्शयन्? "अनञ्समासे इति प्रसज्यप्रतिषेधोऽयमिति दर्शयति। पर्युदासे हि सति नञिवयुक्तन्यायेन (व्या।प।
६५) नञ्समासादन्यस्मिन्? समासे वर्तमानयोः स्यात्()--परमैष ददाति, परमस ददातीति; एष ददाति, स ददातीत्यत्र न स्यात्()। अथ "स सम्प्रदानम्()" (१।४।
३२) इत्यादिको निर्देशो ज्ञापयति--असमासेऽपि भवतीति? उच्यते; एवमप्येतच्छब्दस्य न स्यात्(), योगापेक्षे तु ज्ञापक आश्रीयमाणे प्रतिपत्तिगौरवं स्यादित्यभिप्रायः। "तयोर्यः सुशब्दः" इति। एतेन "एतत्तदोः" इति सुशब्दापेक्षया सम्बन्धलक्षणेयं षष्ठीत्याचष्टे। यद्यवम्(), सुशब्दस्य सापेक्षत्वादसामर्थ्ये सति लोपशब्देन सह समासो नोपपद्यते।
गमकत्वत्? सापेक्षस्यापि समासो भविष्यतीत्यदोषः। अथ वा--असमाननिर्देश सति लोपशब्देन सह समासो नोपपद्यते।
गमकत्वाकत्? सापेक्षस्यापि समासो भविष्यतीत्यदोषः। अथ वा--असमाननिर्देश एवायम्(), षष्ठी तु "सुपां सुलुक्()"
७।१।३९ इत्यनेनैव लुप्तत्वान्न श्रूयते। "कश्च तयोः सुशब्दः" इति। एवं मन्यते--आनन्तर्यलक्षणेन वा सम्बन्देनैतत्तदोः सुशब्दः सम्बन्धी स्यात्(), अर्थद्वारेण वा;
तत्र हि पूर्वस्मिन्? पक्षे सप्तमीबहुवचनस्यापि ग्रहणं स्यात्()। भवति हि तदेतदोरानन्तर्यलक्षमेन सम्बन्धेन सम्बन्धी।
इतरस्मिन्? "अनञ्समासे" इति प्रतिषेधस्यैव वैयथ्र्य स्यात्()--अनेषो ददाति, असो ददातीति। अत्र हि समासद्वारेण सुशब्दः समासत्यैव सम्बन्धी, न त्वेतत्तदोरिति।
ननु च सानुबन्धकत्वात्? सप्तमीबहुवचनं नाशङ्कनीयमेव? नैतदस्ति; प्रथमैकवचनमपि हि तद्गणसंविज्ञाने बहुव्रीहौ सानुबन्धकमेव। तद्गुणसंविज्ञान इति "एकानुबन्धग्रहणे न द्व्यनुबन्धकस्य" (व्या।प।५२) इत्यतर यदस्त्येकानुबन्धग्रहणं तदपेक्ष्य बोध्यम्()। तत्रातद्गुणसंविज्ञानेऽङ्गीकृत एतद्वचनं न घटते; अनुबन्धं त्यक्त्वा सुशब्दो नास्ति,
किं तर्हि? सशब्दः। इयाँस्तु विशेषः--एकसय पकारोऽनुबन्धः, अपरस्य तूकार इति।
तस्माद्()द्वयोरपि सानुबन्धकत्वात्? सपतमीबहुवचनमपि युक्तमाशङ्कितुम्()। द्वितीये तु पक्षे यो दोषः, तमुत्तरत्र परिहरियिष्यामीति चेतसि कृत्वाऽऽह--"यस्तदर्थेन सम्बन्धः" इति। एवं ब्राउवता प्रथमैकवचनं तयोः सम्बन्धीत्युक्तं भवति।
कथं कृत्वा? एतत्तच्छब्दौ हि प्रातिपदिके। "त्रिकश्च प्रातिपदिकार्थः" इतीदमत्र दर्शनमाश्रितम्()। तथा हि "बहुषु बहुवचनम्()"
१।४।२१ इत्यत्र बहुषु बहवचनं भवति। बहुत्वमससय वाच्यं भवतीत्यर्थः। "कर्मादयोऽप्यपरे विभक्तीनां वाच्यास्तदीये"
१।४।२१ इत्यत्र ब्राउवाणेन संख्यायाः कर्मादीनां च विभक्ति वाच्यत्वमिति दर्शितम्(), अर्थाच्च त्रिकत्वम्(), "स्वार्थद्रव्यलिङ्गात्मकं प्रातिपदिकार्थः" इति तस्य प्रातिपदिकार्थस्य यदेकत्वं तत्र प्रथमैकवचनमेव भवति, न सप्तमीबहुवचनम्()। तद्()व्यधिकरणस्यैव बहुत्वे भवति। तस्मादेतत्तदोरर्थद्वारकेण प्रथमैकवचनमेव सम्बद्धम्(), न सप्तमीबहुवचनम्()।
"एष ददाति" इति। "तदो सः सावनन्त्ययोः"
७।२।१०६ इति सत्वम्(), त्यदाद्यत्वम्(), "आदेशप्रत्यययोः"
८।३।५९ इति षत्वम्()।
"एषकः" इति।
"अव्ययसरवनाम्नामकच्? प्राक्? टेः"
५।३।७१ इत्यकच्()। ननु साकच्कावेतौ भिन्नरूपत्वादेतत्तदौ न भवतः,
तत्? किम्? "अकोः" इति प्रतिषेधेन? इत्यत आह--"तन्मध्ययतितः" इत्यादि। तस्माश्च परिभाषाया (व्या।प।२१) अस्तित्व एष एव "अकोः" इति प्रतिषेधो ज्ञापकः, "नेदमदसोरकोः"
७।१।११ इति च।
ननु च नञ्समासे कृते शब्दान्तरस्य सम्बन्धी सुर्भवति, नैतत्तदौः,
ततश्च प्रसङ्गो नास्तीति किम्? "अनञ्समासे इति परतिषेधेन? इत्यत आह--"उत्तरपदार्थप्रधानत्वात्()" इत्यादि। यद्यपि शब्दान्तरं नञ्समासः,
तथापि तस्योत्तरपदार्थप्रधानत्वादेतत्तदोश्चोत्तरपदत्वात्? तत्सम्बन्धिन्यामेव संख्यायां सुशब्द उत्पन्न इति तयोरेव सुर्भवति। तस्मादस्ति प्राप्तिरिति प्रतिषेधः। क्रियते।
समास इति किम्()? वाक्ये प्रतिषेधो मा भूत्()--नैष ददाति, न स पश्यतीति॥
एतत्तदोः। "एतत्तदो"रित्यत्र "त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते" इत्येकशेषस्य, त्यदाद्यत्वस्य चाऽभाव आर्षः। "सु" इति लुप्तषष्ठीकं पदम्-"एतत्तदो"रित्यनेनान्वेति-एतत्तदोः सकारस्येति। अत एव सोर्लोपः सुलोप इति न षष्ठीसमासः, असामथ्र्यात्। अविद्यमानः ककारो ययोस्तौ अकौ, तयोः अकोरिति बहुव्रीहिः। तदाह-अककारयोरित्यादिना। "अनञ्समासे" इति न पर्युदासः। तथा सति नञिवयुक्तन्यायान्नञ्समाससदृशे समास एव स्यात्, नतु एष विष्णुरित्यादिवाक्येषु इत्यभिप्रेत्याह-न तु नञ्समास इति। एष विष्णुः, स शम्भुरिति। एषस् विष्णुः, सस् शम्भुरिति स्थिते सकारस्य लोपः। एषको रुद्र इति। "अव्ययसर्वनाम्नामकच्प्राक्टेः" इति अकच्। अत्र एतच्छब्दस्य सककारत्वान्न सुलोपः। तच्छब्देऽकचि सको रुद्र इत्यपि प्रत्युदाहरणम्। न चाऽकचि सति शब्दान्तरत्वात्प्राप्तिरेव नेति वाच्यम्, "तन्मध्यपतितस्तद्ग्रहणेन गृह्रते" इति परिभाषया साकच्कस्य अशब्दान्तरत्वात्। परिभाषाया तु इदमेव ज्ञापकम्। असश्शिव इति। न सः-अस इति विग्रहः। "विसर्जनीयस्य स" इति सत्वे श्चुत्वे शकारः। नञ्समासत्वान्न सुलोपः। अनेश्शिव इत्यपि प्रत्युदाहरणम्। एषोऽत्रेति। एषस्-अत्रेति स्थिते, सस्य रुत्वम्, उत्वम्, आद्गुणः, हल्परकत्वाभावान्न लोपः। अत्र "एतत्तदोरवयवस्य सो"रिति न व्याख्याम्, असम्भवात्, सोः परत्वेन विहितस्य प्रातिपदिकावयवत्वाभावात्। "एतत्तद्भ्यां परस्य सो"रित्यपि न भवति, एतत्तदोरिति षष्ठीविरोधात्। "एतत्तद्भ्यां विहितस्ये"ति व्याख्याने तु परमैष ददाति, परमस ददातीत्यत्र अव्याप्तिः। तत्र सोः समासाद्विहितत्वेन एतत्तद्भ्यां विहितत्वाभावात्। अनञ्समास इति प्रतिषेधवैयथ्र्याच्च। अत "एतत्तदर्थगतसङ्ख्याभिधायिनः सो"रिति व्याख्येयम्।